Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 334
________________ तत्त्वसंग्रहे दीपप्रदीपप्रभाप्रसरसंसर्गिणि धरणितले तिमिरम् । अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः । स्यादेतत्— - यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्पत्तुमनवकाशः तथा [G.871] नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनास्यासम्भवादसिद्धो हेतुः । सम्भवतु वा' नैरात्म्यदर्शनम्, तथाप्यनयोविरोधे सत्यपि नात्यन्तं बाध्यबाधकभावः सिध्यति ; यथा रागद्वेषयोः, सुखदुःखयोर्वा; यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्, न तु तावत्कालासमुदाचारमात्रमिति । अतोऽनैकान्तिकता • हेतोः । दृश्यन्ते च प्रतिदिनमनुमानबलावधारितसमस्तवस्तुगतनैरात्म्यतत्त्वानामपि सतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपि हेतोर्नैकान्तिकतेति ? नैतदस्ति; यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहीणक्लेशस्य सन्ताने न सम्भवेत्, तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः सर्वेषामेव। स एव च भावनया कामिनीविकल्पवत् प्रकर्षगमनसम्भवादन्ते स्फुटप्रतिभासतया, प्रमाणप्रतीताग्राहितया च प्रत्यक्षतामापद्यत इति कथं नैरात्म्यदर्शनोदयासम्भवः । ७३८ अपि च-यथाऽन्धकारपरिगते देशे कालान्तरेण प्रकाशोदयावकाशसम्भवस्तथेहापि किं न सम्भाव्यते । न चाप्येवं शक्यं वक्तुम् सैव तादृशी भावना न कस्यचित् सम्भवति, या तथाभूतप्रत्यक्षज्ञानफला भवेदिति; यतोऽसम्भवे कारणं वचनीयम् । तथा हि- भावनायामप्रयोगे सर्वेषामेवानर्थित्वं वा कारणं भवेत्, प्रेक्षावतः प्रवृत्तेरर्थितया व्याप्तत्वात् ? सत्यप्यर्थित्वे प्रहेयस्वरूपापरिज्ञानाद्वा न प्रवर्त्तते प्रेक्षावान्, अनिर्ज्ञातस्वरूपस्य दोषस्य हातुमशक्यत्वात् ? सत्यपि तत्स्वरूपज्ञाने नित्यत्वं वा दोषाणां पश्यँस्तत्प्रहाणाय न यत्नमारभते, नित्यस्य प्रहाणासम्भवात् ? असत्यपि वा नित्यत्वे' निर्हेतुकत्वमेषामवगम्य' निवर्त्तते, स्वतन्त्रास्यासम्भवदुच्छेदत्वात् ? सत्यपि वा कारणवत्त्वे तत्कारणस्वरूपांनिश्चयादपि नाद्रियते भावनायाम्, अविज्ञातनिदानस्य' व्याधिरिव प्रहातुमशक्यत्वात् ? भवतु वा तत्कारणपरिज्ञानम्, किं तत्कारणं नित्यमवगम्य नोत्सहते तत्प्रहाणाय प्रेक्षापूर्वकारी, अविकलकारणस्य प्रतिबद्धुमशक्तेः ? अनित्यत्वेऽपि वा तत्कारणस्य दोषाणां प्राणिधर्मतामवेत्य न प्रयतते, स्वभावस्य हातुमशक्यत्वत् ? अस्वभावत्वे वा दोषाणां क्षयोपायासम्भवान् निवर्त्तते, नह्यपायविकलस्योपेयसम्प्राप्तिरस्ति ? सत्त्वेऽपि चोपायस्य तदपरिज्ञानदसम्भवत्तदनुष्ठानो भवेत्, अपरिज्ञातस्वरूपस्यानुष्ठानासम्भवात् ? परिज्ञानेऽपि वा लङ्घनादिव व्यवस्थितोत्कर्षतया जन्मान्तरासम्भवेन वा भावनाया अत्यन्तप्रकर्षमसम्भावयन्नाभियोगवान् भवति ? भवतु वाऽत्यन्तप्रकर्षगमनमसम्भवात् प्रतिपक्षोदयेन दोषाणां क्षय:, तथापि ताम्रादिकाठिन्यवत् पुनरपि दोषोदयं [G.872] सम्भावयन्नाभियोगमारभत इति ? तत्र न तावदनर्थित्वं सिद्धम् । तथा हि-ये तावज्जात्यादिदुःखोत्पीडितमानसाः १. वा न वा पा०, गा० । ३. ० प्रहाणक्लेशस्य- पा०, गा० । ५. अपिज्ञात० - पा० । २-२. पा०, गा० पुस्तकयोस्तु 'दृश्यतेऽपि '- इत्येव पाठः। ४ - ४. नित्यत्वनिर्हेतु० - पा०, गा० । ६. दोषादयं - पा०, गा० ।

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450