Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
. अतीन्द्रियार्थदर्शिपरीक्षा
७५७ किञ्च-आश्रयविशेषलाभे सति यथा हंसादेः प्रागशक्तस्यापि सतः पश्चाद् गतिविशेष्यते, तथा भगवतोऽपि बोधिसत्त्वावस्थायामशक्तस्यापि सतः पश्चात् समाधिविशेषलाभादासादिताश्रयविशेषस्य तथाविधा गतिः सम्भाव्यत इत्येवम्परमेतत्। अभ्यासग्रहणमतन्त्रम्। प्रयोग:-यः सम्भवदाश्रयविशेषोपाधिरभ्यास: स सम्भवदत्यन्तदूरगमनफलः, यथा राजहंसशिशोरभ्यासः । सम्भवदाश्रयविशेषोपाधिर्मनुष्याणामभ्यास इति स्वभावहेतुः ॥३४२७३४२९ ॥
तेन' यदुक्तम्-"दशहस्तान्तरम्' (तत्त्व० ३१६७) इत्यादि, तदपास्तमिति दर्शयति
दशहस्तान्तरव्योम्नस्तद् यदुत्प्लुत्य गच्छति।
शक्तिः स्यादीदृशी हेतोस्तस्य दूरगतावपि॥३४३०॥ स्थिराश्रयत्वे सतीति विशेषमोपादानादुदकतापेन नानैकान्तिक इति दर्शयति
उष्णतां नीयमानस्य क्षयो भवति चाम्भसः।
अस्थैर्यादाश्रयस्यातः कस्य कस्मिन् प्रकृष्टता ॥३४३१॥ स्यादेतत्, प्रक्षादेस्तु स्थिराश्रयत्वमेव कथं सिद्धम् ? इत्याह
मानसानां गुणानां तु चित्तसन्ततिराश्रयः।
साऽऽधारयोगतो' वृत्तेर्न कथञ्चिनिवर्त्तते॥३४३२॥ सेति चित्तसन्तति: । आधारयोगतो वृत्तेति' । बोधिसत्त्वाश्रयलक्षणाधारसम्बन्धेन प्रवृत्तेरित्यर्थः; विशिष्टस्याधारस्य विवक्षितत्वात्। तथा हि-परलोकस्य प्रसाधितत्वाद् बोधिसत्त्वानां च सात्मीभूतमहाकृपाणामासंसारमशेनसत्त्वोद्धरणायावस्थानात् तदाश्रयवर्तिनी चित्तसन्ततिरतितरां स्थिराश्रया। या तु श्रावकादीनां सन्तानवर्तिनी सा न स्थिराश्रया; तेषां शीघ्रतरं परिनिर्वाणान्मन्दत्वात् कृपायास्तेषामवस्थाने यत्नाभावादिति भावः ॥ ३४३२॥ [G.895] द्वितीयमपि विशेषणं कथं सिद्धम् ? इति चेदाह
यावद् यावद्गुणोघोऽस्यामाभिमुख्येन वर्तते। __ प्रभास्वरतरा. तावत् सुतरामेव वर्त्तते॥३४३३॥ एतदेव कथं सिद्धम्? इत्याह
. प्रभास्वरमिदं चित्तं तत्त्वदर्शनसात्मकम्।
प्रकृत्यैव स्थितं यस्मान् मलास्त्वागन्तवो मताः॥३४३४॥ एतच्च पूर्वमेव व्याख्यातमस्माभिः । एते च प्रकृत्या तत्त्वदर्शनात्मकतया चित्तस्य स्वभावभूताः प्रज्ञादयो विशेषा इति प्रतिपादितमिति स्वभावत्वेन प्रज्ञादीनां सकृदाहितानां स्वरसत एव प्रवृत्तिर्भवतीति सिद्धम् ॥ ३४३४ ॥ द्वितीयमपि विशेषणं तत्त्वदर्शनात्मकमेव विज्ञानस्य कथं सिद्धमिति चेद्? आह
परबोधात्मनियतं चेतो यदि हि सम्भवेत्। १. पा०, गा० पुस्तकयो स्ति। .. २. साधारणागतो- जै०। ३. वृत्तान-पा०, गा० । ४-४. सा चित्त-जै०।
५. वृत्तादिति-पा०,गा।
६. प्रकृतिः -पा०, गा०।
Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450