Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 339
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७४३ कार्यलिङ्गात् सिद्धः पुरुषविशेषोऽस्माभिः सुगत इत्युच्यते। तस्यानया देशनया साभ्युपायहेयोपादेयतत्त्वस्थिराशेषज्ञानं सांध्यते। तेन' ज्ञानयोगादेवासौ [G.877] सर्वज्ञः प्रमाणभूतश्चेति तदुक्तप्रतिपत्तिकामैः साधयितुं युक्तः, न तु कीटसङ्ख्यादिज्ञानात्। किन्तु कीटसङ्ख्यादावपि तस्य ज्ञानसम्भव: साध्यते। तत्त्वस्थिराशेषज्ञानं त्वाहत्य। तथा हि-प्रमाणसंवादिनैरात्म्यदेशनया तत्त्वज्ञानं यस्य सिद्धम्, तस्यैव नैरात्म्यस्य पूर्वापराव्याहतदेशनया स्थिरज्ञानम्; नवाङ्गेऽपि शास्त्रप्रवचने प्रियानुविषयायामपि देशनायां दुःखादिलक्षणसत्यदेशनाया एकवाक्यत्वात् । विचित्रैश्चोपायैश्चतुःसत्यप्रकाशनादशेषज्ञानमस्यानुमीयते; शेषस्य सर्वाकारज्ञानप्रतिपादनासामर्थ्यलक्षणस्य प्रहाणात्। न ह्यविदितसर्वाकारगुणदोषस्तत्प्रतिपादनाकुशलश्च तथा प्रतिपादयति । नापि वेदाद् विज्ञाय प्रतिपादयतीति युक्तम्; तस्य पौरुषेयत्वप्रतिपादनादिति भावः । अतोऽशेषतीर्थकरमूनि भगवान् ज्ञानातिशययोगात् स्थित इति सिद्धम् ॥ ३३३९ ॥ अत एव यथोक्तज्ञानातिशययोगिना भगवता सहान्येषां न तुल्यत्वमस्तीति दर्शयनाह तेन प्रमाणसंवादितत्त्वदर्शनयोगिना। न तुल्यहेतुताऽन्येषां विरुद्धार्थोपदेशिनाम् ॥३३४०॥ प्रमाणगोचरा येषां प्रमाबाधाकुलं वचः। तेषामत्यक्षविज्ञानशक्तियोगो हि दूरतः॥३३४१॥ न ह्येषां ज्ञानतिशययोगिताप्रसाधक: कश्चिद्धेतुरस्ति । तथा हि-हेतुर्भवत् वचनाख्यमेव लिङ्गं भवेत, तच्चैषां प्रमाणविरुद्धार्थप्रतिपादकमिति कथं ततो ज्ञानातिशययोगिताऽमीषां प्रतीयेत! |.३३४०-३३४१॥ सुंगतस्यापि वचनं प्रमाणविरुद्धमिति चेद् ? आह सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम्। सम्बद्धम् वाक्यांनामेकार्थोपसंहारेण परस्परं सङ्गत्या , न तु दशदाडिमादिवाक्यवत् परासङ्गतम्। अनुगुणः शक्यानुष्ठानतया नैरात्म्यभावनादिलक्षण उपायो यस्मिन्नुपदिष्टस्तत् तथोक्तम्, न तु विषप्रशमनाय तक्षकचूडारत्नालङ्कारोपदेशवदशक्योपायम्। पुरुषार्थ:=अभ्युदयनिःश्रेयसलक्षणः, तस्याभिधायकम्, न तु काकदन्तपरीक्षावदपुरुषार्थफलम्। ननु चैतत्सर्वं कपिलादिवाक्येष्वप्यस्ति? इत्याह . द्रष्टेऽप्यर्थे प्रमाणाभ्यामीषदप्यप्रबाधितम्॥३३४२॥ [G.878] दृष्टे प्रत्यक्षानुमानविषयाविषयत्वेनाभिप्रेते"। प्रमाणाभ्याम्=प्रत्यक्षानुमानाभ्याम्, अप्रबाधितम्; यथानिर्दिष्टस्यार्थस्य तथाभावात्। तथा हि-नीलादिसुखदुःखादिनिमित्तोद्ग्रहणरागादिबुद्धिलक्षणस्य स्कन्धपञ्चकस्य प्रत्यक्षत्वेनाभिमतस्य नान्यथात्वं सम्भवति, अप्रत्यक्षत्वेन चाभिमतानामप्रत्यक्षतेव। यथा परैः प्रत्यक्षाभिमतानां रूपशब्दादिसन्निवेशानां सुखादीनां द्रव्यकर्मसामान्यसंयोगादीनां च। तथा-वस्तुबलप्रवृत्तानुमानविषयत्वेनाभिप्रेतानां तथा भाव एव । तथा चतुर्णामार्यसत्यानामतद्विषयत्वेनेष्टानां चातद्विषयत्वमेव, यथा परैर्वस्तुबलानुमान१. न-जै०, गा०। २. प्रियानविष०-०, पा० । ३. तुल्ययोगता-गा। ४. सङ्गतम्-पा०, गा०। ५. ०मानविषयत्वे०-पा०, गा०/

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450