________________
अतीन्द्रियार्थदर्शिपरीक्षा
७४३ कार्यलिङ्गात् सिद्धः पुरुषविशेषोऽस्माभिः सुगत इत्युच्यते। तस्यानया देशनया साभ्युपायहेयोपादेयतत्त्वस्थिराशेषज्ञानं सांध्यते। तेन' ज्ञानयोगादेवासौ [G.877] सर्वज्ञः प्रमाणभूतश्चेति तदुक्तप्रतिपत्तिकामैः साधयितुं युक्तः, न तु कीटसङ्ख्यादिज्ञानात्। किन्तु कीटसङ्ख्यादावपि तस्य ज्ञानसम्भव: साध्यते। तत्त्वस्थिराशेषज्ञानं त्वाहत्य। तथा हि-प्रमाणसंवादिनैरात्म्यदेशनया तत्त्वज्ञानं यस्य सिद्धम्, तस्यैव नैरात्म्यस्य पूर्वापराव्याहतदेशनया स्थिरज्ञानम्; नवाङ्गेऽपि शास्त्रप्रवचने प्रियानुविषयायामपि देशनायां दुःखादिलक्षणसत्यदेशनाया एकवाक्यत्वात् । विचित्रैश्चोपायैश्चतुःसत्यप्रकाशनादशेषज्ञानमस्यानुमीयते; शेषस्य सर्वाकारज्ञानप्रतिपादनासामर्थ्यलक्षणस्य प्रहाणात्। न ह्यविदितसर्वाकारगुणदोषस्तत्प्रतिपादनाकुशलश्च तथा प्रतिपादयति । नापि वेदाद् विज्ञाय प्रतिपादयतीति युक्तम्; तस्य पौरुषेयत्वप्रतिपादनादिति भावः । अतोऽशेषतीर्थकरमूनि भगवान् ज्ञानातिशययोगात् स्थित इति सिद्धम् ॥ ३३३९ ॥ अत एव यथोक्तज्ञानातिशययोगिना भगवता सहान्येषां न तुल्यत्वमस्तीति दर्शयनाह
तेन प्रमाणसंवादितत्त्वदर्शनयोगिना। न तुल्यहेतुताऽन्येषां विरुद्धार्थोपदेशिनाम् ॥३३४०॥ प्रमाणगोचरा येषां प्रमाबाधाकुलं वचः।
तेषामत्यक्षविज्ञानशक्तियोगो हि दूरतः॥३३४१॥ न ह्येषां ज्ञानतिशययोगिताप्रसाधक: कश्चिद्धेतुरस्ति । तथा हि-हेतुर्भवत् वचनाख्यमेव लिङ्गं भवेत, तच्चैषां प्रमाणविरुद्धार्थप्रतिपादकमिति कथं ततो ज्ञानातिशययोगिताऽमीषां प्रतीयेत! |.३३४०-३३४१॥ सुंगतस्यापि वचनं प्रमाणविरुद्धमिति चेद् ? आह
सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम्। सम्बद्धम् वाक्यांनामेकार्थोपसंहारेण परस्परं सङ्गत्या , न तु दशदाडिमादिवाक्यवत् परासङ्गतम्। अनुगुणः शक्यानुष्ठानतया नैरात्म्यभावनादिलक्षण उपायो यस्मिन्नुपदिष्टस्तत् तथोक्तम्, न तु विषप्रशमनाय तक्षकचूडारत्नालङ्कारोपदेशवदशक्योपायम्। पुरुषार्थ:=अभ्युदयनिःश्रेयसलक्षणः, तस्याभिधायकम्, न तु काकदन्तपरीक्षावदपुरुषार्थफलम्। ननु चैतत्सर्वं कपिलादिवाक्येष्वप्यस्ति? इत्याह
. द्रष्टेऽप्यर्थे प्रमाणाभ्यामीषदप्यप्रबाधितम्॥३३४२॥ [G.878] दृष्टे प्रत्यक्षानुमानविषयाविषयत्वेनाभिप्रेते"। प्रमाणाभ्याम्=प्रत्यक्षानुमानाभ्याम्, अप्रबाधितम्; यथानिर्दिष्टस्यार्थस्य तथाभावात्। तथा हि-नीलादिसुखदुःखादिनिमित्तोद्ग्रहणरागादिबुद्धिलक्षणस्य स्कन्धपञ्चकस्य प्रत्यक्षत्वेनाभिमतस्य नान्यथात्वं सम्भवति, अप्रत्यक्षत्वेन चाभिमतानामप्रत्यक्षतेव। यथा परैः प्रत्यक्षाभिमतानां रूपशब्दादिसन्निवेशानां सुखादीनां द्रव्यकर्मसामान्यसंयोगादीनां च। तथा-वस्तुबलप्रवृत्तानुमानविषयत्वेनाभिप्रेतानां तथा भाव एव । तथा चतुर्णामार्यसत्यानामतद्विषयत्वेनेष्टानां चातद्विषयत्वमेव, यथा परैर्वस्तुबलानुमान१. न-जै०, गा०। २. प्रियानविष०-०, पा० ।
३. तुल्ययोगता-गा। ४. सङ्गतम्-पा०, गा०।
५. ०मानविषयत्वे०-पा०, गा०/