SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ७४४ तत्त्वसंग्रहे विषयत्वेनाभिमतानामात्मादीनाम्। अपिशब्दाददृष्टेऽपि न विक्रियेति दर्शितम्। तथा हिअत्र रागादिरूपं तत्प्रभवं वा धर्ममुद्दिश्य तत्प्रहाणाय तन्निदानात्मदर्शनविरोधेन नैरात्म्यदर्शनमेव प्रतिपक्षो देशितः, न तु कपिलादिशास्त्रवत् तन्निदानाविरुद्धः स्नानाग्निहोत्रादिरुपदिष्टः ॥३३४२॥ अत एव “विशुद्धसुवर्णवत् परीक्ष्य ग्राह्यमेतद्विचक्षणैः" इति भगवतोक्तम्- इत्येतत् सूचयन्नाह तापाच्छेदानिकषाद्वा कलधौतमिवामलम्। परीक्ष्यमाणं यन्नैव विक्रियां प्रतिपद्यते॥३३४३॥ यथा कलधौतम्-सुवर्णम्, अमलम् सर्वदोषरहितं परीक्ष्यमाणं तापादिभिर्न विक्रियां प्रतिपद्यते, तथा भगवद्वचोरत्नं प्रत्यक्षे तापसदृशेन वस्तुबलप्रवृत्तानुमानेन, निकषप्रख्येणागमापेक्षानुमानेनापि छेदददृष्टान्तसूचितेन न विक्रियते। अतः प्रेक्षापूर्वकारिण एवम्भूतादेवागमात् प्रवृत्तियुक्ता, नान्यत इत्यभिप्रायः ॥ ३३४३ ॥ रत्नसाधर्म्यमस्य दर्शयन्नाह समस्तकुमतध्वान्तविध्वंसानुगुणोदयम् । तथागतवचोरत्नमलब्धं बहुकल्मषैः॥३३४४॥ ततः सुगतमेवाहुः सर्वज्ञमतिशालिनः। प्रधानपुरुषार्थज्ञं तं चैवाहुभिषग्वरम्॥३३४५॥ सुगतस्तेन सर्वज्ञः कपिलो नेति तु प्रमा। अनन्तरोदिता व्यक्ताऽप्येषा मूढैन लक्षिता॥३३४६ ॥ कुमतमेव ध्वान्तम् अन्धकारम्, तस्य विध्वंस: विनाशः, तस्मिन्ननुगुण उदयो [G.879] यस्य तत्तथोक्तम्। बहुकल्मषैरिति अपुण्यवद्भिः । अनन्तरोदिर्तेति यथोक्तवचनाख्यकार्यलिङ्गजा ॥ ३३४४-३३४६॥ "गणितायेकदेशेषु" (तत्त्व० ३१४९) इत्यादावाह-. यथोदितान्तंरादेव विशेषोऽप्यवधार्यते। ऋषभादिकुतीर्थेभ्यः स्मरभङ्गविधायिनः ॥३३४७॥ यथोक्तनातिशययोगाद्भगवतो मारजितो ऋषभ-वर्धमानदिभ्यो विशेषे सिद्धे सति न युक्तं सत्यवचसा भवता वक्तुम्-न विशेषोऽवधार्यत इति समुदायार्थः ॥ ३३४७॥ स्यादेतत्-गणितायेकदेशार्थेऽविसंवादादुभयेषामस्माभिरविशेष उच्यते? इत्याह को हि निःशेषशास्त्रार्थतत्त्वज्ञं मन्यते जडः। समानभोजनज्ञानान्मातृकामात्रवेदनात् ॥३३४८॥ "येनैव हेतुना" (तत्त्व ३१५०) इत्यादावाह तद्येन . हेतुनैकस्य सर्वज्ञत्वं प्रसाध्यते। तद्धेतुवस्तुनोऽसत्त्वान्न सोऽन्यस्योपतिष्ठते॥ ३३४९॥ १. इति इति-गा।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy