________________
अतीन्द्रियार्थदर्शिपरीक्षा
७४५ तदिति तस्मात् । तद्धेतुवस्तुन इति। यदि नाम शब्दमात्रमस्ति-स्याद्वादादीनामविपरीतार्थानां सर्वार्थव्यापिनामुपदेष्टुत्वादिति, तथापि तस्य वस्तुप्रतिबद्धस्य हेतुवस्तुनः हेत्वर्थस्याभावान्नासौ हेतुरन्यस्य कपिलादेरुपतिष्ठते; वस्त्वेव हि वस्तुप्रतिबद्धत्वाद् वस्तु गमयति, न शब्दमात्रम्॥ ३३४९ ॥ "दूषणानि" (तत्त्व० ३१५१) इत्यादावाह
तदूषणान्यसंरम्भाः सर्वज्ञजिनसाधने ।
शाक्या यानि वदन्त्येवं तान्यशक्ता दिगम्बराः ॥३३५०॥ असंरम्भा इति संरम्भरहिताः। कृपयैव परानुग्रहाय तेषां प्रवृत्तेर्न भवतामिव रोषमानादिभिः । एवमिति। तदुपदिष्टस्य स्याद्वादादेर्दुष्टत्वप्रतिपादनात् ॥ ३३५० ॥ "तत्रानवस्थितैः" (तत्त्व० ३१५२) इत्यादावाह
यत् सिद्धप्रतिबन्धेन प्रमाणेनोपपादितम्। तत्त्वं सौगतसिद्धान्ते सिद्धं नान्यमते तथा॥३३५१॥ तेन व्यवस्थितैस्तेषां भिन्नैः साधनदूषणैः।
प्रतिबिम्बोदयाग्रस्तैर्निर्णयः क्रियतामलम्॥३३५२॥ [G.880] यदिति यस्मात् । सिद्धप्रतिबन्धेनेति । वस्तुबलप्रवृत्तेर्न सिद्धतादात्म्यतदुत्पत्तिक्षणप्रतिबन्धेनेत्यर्थः । तेनेति तस्मात् ॥ ३३५१-३३५२॥
"यस्य ज्ञेय०" (तत्त्व० ३१५६) इत्यादावाह. सर्वाकारज्ञतायास्तु . न कश्चिदपि विद्यते।
.: साक्षादितरथा वापि विरोधो शेयतादिभिः॥३३५३॥ . अर्थान्तरविधानेनार्थान्तरस्य निषेधं प्रतिपादयितुमिच्छता साक्षात् पारम्पर्येण वा विरुद्धस्यैव विधानात् प्रतिपादनीयः, न विरुद्धस्य; अन्यथा हि यस्य कस्यचिद् विधानेन सर्वस्य निषेधः स्यात्। न च सर्वज्ञत्वस्य ज्ञेयत्वादिभिः सह कश्चित् साक्षात् पारम्पर्येण वा विरोधोऽस्ति। तथा हि-द्विविध एवं भावानां विरोधो निरूप्यमाणोऽवतिष्ठते-परस्परपरिहारस्थितलक्षणो वा, यथा भावाभावयोः क्रमाक्रमयोर्वा; सहानवस्थानलक्षणो वा, यथाग्निशीतस्पर्शयोंः ॥ ३३५३॥ . तत्राद्यस्तावज्ज्ञेयत्वादिभिः सह सर्वज्ञत्वस्य न सम्भवतीति दर्शयति
अज्ञेयत्वादिविश्लेषात् ज्ञेयत्वादि व्यवस्थितम्।
न सर्वज्ञत्वविश्लेषात् तत्पुनः स्थितलक्षणम्॥३३५४॥ . यव्यवच्छेदनान्तरीयको यस्य परिच्छेदस्तयोरेव परस्परपरिहारस्थितिलक्षणो विरोध इति पूर्वमुक्तम्। न च ज्ञेयत्वादि सर्वज्ञत्वव्यच्छेदेन स्थितम्, किं तर्हि ? अज्ञेयत्वादिव्यवच्छेदेन ॥ ३३५३-३३५४॥ नापि द्वितीयो विरोधः सम्भवतीति दर्शयन्नाहसर्वज्ञत्वं न चाप्येतत् क्वचित् सम्पूर्णकारणम्।
२. ०न:- गा०।
१. शासने-पा०, गा०/