________________
७४६
तत्त्वसंग्रहे सत्त्वादिसम्भवे पश्चात् प्राक्प्रवृत्तं निवर्त्तते॥३३५५॥ यस्य ह्यविकलकारणस्य भवतो यत्सन्निधानादभावस्तयोरेव सहानवस्थानलक्षणो विरोधः, न चैतत् सर्वज्ञत्वमविकलकारणं प्राक् प्रवृत्तं दृष्टम्, येन पश्चात् सत्त्वादिसम्भवे सति निवर्त्तत इति स्यात् ॥ ३३५५॥ कस्मान्न प्रवृत्तम् ? इत्याह
नैःस्वाभाव्येऽस्ववित्तौ च न हि तज्जातु जायते।
प्राक्प्रवृत्तेः प्रसिद्धेयमेवं सर्वज्ञता भवेत्॥३३५६॥ [G.881] यदि सर्वज्ञत्वं सर्वज्ञेयत्वसद्भावे सति निवर्तत इति भवताऽभ्युपगम्यते, तथा च सति सत्त्वादिसन्निधानात् पूर्वमस्यामसत्त्वज्ञेयत्वं च स्वसंविदापीत्यभ्युपगतं भवेत्, ततश्चासत्त्वेन नै:स्वभाव्ये सत्यज्ञेयत्वाच्चास्ववित्तौ सत्यां नैतत् सर्वज्ञत्वं जायते भवतीति, तत्कथं प्राक्प्रवृत्तं पश्चान्निवर्त्तत इति स्यात् । न हि नि:स्वभावस्योत्पत्तिः सम्भवति। नाप्यनुपलब्धस्य सत्ताव्यवस्थानिबन्धनमस्ति, ज्ञाननिबन्धनत्वाद्वस्तुसत्ताव्यवस्थायाः । तस्मात् स्ववचनव्याघात इत्यभिप्रायः।
किञ्च-यदि प्राक्प्रवृत्तिरस्याभ्युपगम्यते, तदा प्रवृत्तेः प्रयत्नमन्तरेणैव सर्वज्ञता सिद्धा, अतो न तत्प्रतिक्षेपो युक्तः; अन्यथा स्ववचनव्याहतिः स्यादिति दर्शयन्नाह-प्राक्प्रवृत्तेरित्यादि। प्राक्प्रवृत्तेः, सर्वज्ञत्वस्याभ्युपगमे सतीति शेषः ॥ ३३५६॥ . अथापि स्यात्-मा भूद् विरुद्धं ज्ञेयत्वादि, तथापि सर्वज्ञासत्त्वं गमयति? इत्याह
नाविरुद्धविधाने च युक्तमन्यनिवर्त्तनम्।
अन्यथा रूपसद्भावाद् रसाभावोऽपि गम्यते॥३३५७॥ यस्तु मन्यते-यद्यपि ज्ञेयत्वादयो न विरुद्ध्यन्ते सर्वज्ञत्वेन, वक्तृत्वं तु विरुध्यत एव; पारम्पर्येणैतत्कारणेन विकल्पेन सर्वज्ञत्वस्य सहानवस्थानात्। तथा हि-'नावितळ नाविचार्य वाचं भाषते' इति न्यायाद्वचनस्य विकल्पो हेतुः, विकल्पानां च सर्वेषामभिलापसंसृष्टतया न वस्तुस्वरूपग्रहणमस्ति; तस्य निर्विकल्पज्ञानगोचरत्वात्। अतो विकल्पावस्थायां वस्तुस्वरूपपरिज्ञानाभावान्न सर्वज्ञत्वमस्तीति सिद्धास्य वक्तृत्वस्य विपक्षात् सर्वज्ञत्वलक्षणात् कारणानुपलब्ध्या व्यतिरेकनिश्चितिरिति नानैकान्तिकता हेतोः । अयं च वक्तृत्वाख्यो हेतुः 'यस्य ज्ञेयप्रमेयत्ववस्तुसत्त्वादिलक्षणाः' (तत्त्व० ३१५६) इत्यत्रादिशब्देनाभिप्त एवेति। तदेतत् तदत्रादिपदाक्षिप्त इत्यादिनाऽऽशङ्कय, अत्रापि ये प्रवक्तृत्वमित्यादिन परिहरति
तदत्रादिपदाक्षिप्ते वक्तृत्वे योऽभिमन्यते। निश्चयं व्यतिरेकस्य परस्परविरोधतः॥३३५८॥ विकल्पे सति वक्तृत्वं सर्वज्ञश्चाविकल्पतः। न ह्याविष्टाभिलापेन वस्तु ज्ञानेन गम्यते ॥३३५९॥ अत्रापि ये प्रवक्तृत्वं वितर्कानुविधानतः।
सर्वज्ञस्याभिमन्यन्ते न तैर्वचनसम्भवे ॥३३६०॥ १. नै:स्वभाव्योऽ०-गा।