________________
७४७
अतीन्द्रियार्थदर्शिपरीक्षा सर्वज्ञं इष्यते नापि विकल्पज्ञानवृत्तितः।
तस्मिन् क्षणे विकल्पे तु वक्तृत्वं न प्रसिध्यति॥३३६१॥ [G.882] केचिद् भगवतो वक्तृत्वं विकल्पसम्मुखीभावादेवेति प्रतिपन्नाः,अन्ये तु पूर्वावेगवशादेवाविकल्पयतोऽपि वचनप्रवृत्तिर्भगवत इति वर्णयन्ति । तत्र प्रथमे दर्शने यदि विकल्पावस्थायामसर्वज्ञत्वं साध्यते, तदा सिद्धसाध्यता; इष्यत एव तैस्तस्यामवस्थायां भगवतोऽसर्वदर्शित्वम्। अथाविकल्पावस्थायामसर्वज्ञत्वं साधयितुमिष्टम् ? तदा हेतोरसिद्धता। न हि तस्यामवस्थायां वचनप्रवृत्तिरस्ति; समुत्थापकस्य विकल्पस्य तदानीमभावात् ॥ ३३५८३३६१॥
ननु यदि विकल्पावस्थायामसर्वज्ञत्वमिष्यते, तदा तद्वचनस्यासर्वज्ञभाषितत्वादप्रामाण्यमेव प्राप्नोति? इत्याशङ्कयाह
असर्वज्ञप्रणीतत्वं न चैवं तस्य युज्यते।
सर्वज्ञतासमाक्षेपादतः . संवादनं भवेत्॥३३६२॥ यद्यपि तस्यामवस्थायामसर्वज्ञः, तथाप्यसर्वज्ञप्रणीतत्वमस्य न भवति, कुतः? सर्वज्ञतया समाक्षिप्तत्वात् तस्य। अत एवं सर्वज्ञज्ञानबलोत्पन्नविकल्पसमुत्थापितत्वात् तस्य पारम्पर्येण वस्तुनि प्रतिबन्धादनुमानविकल्पवत् प्रामाण्यमपि भवति। अत्रैव दृष्टान्तमाह
अनुभूय यथा कश्चिदौष्ण्यं पश्चात् प्रभाषते।
तस्माद् वस्त्वविसंवादस्तदर्थानुभवोद्भवात्॥३३६३॥ तस्मादिति उष्णानुभवलभाविनो वचनात्। तदर्थानुभवोद्भवादिति। तस्योष्णार्थस्यानुभवात् पारम्पर्येण विकल्पस्योद्भवादियः ।। ३३६३॥ . स्यादेतत्-.
: तेन सर्वज्ञताकाले हेतोरस्याप्रसिद्धता। . व्याहारवृत्तिकाले तु भवेद् सिद्धप्रसाधनम्॥३३६४॥
यदि सर्वज्ञस्य विकल्पप्रत्ययोऽस्ति, तदा भ्रान्तः प्राप्नोति; विकल्पस्य प्रकृत्या स्वप्रतिभासेनार्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्तत्वादिति? नैतदस्ति; यद्यारोपितस्य तात्त्विकस्य च रूपस्य विभागं न जानीयात्, तदा भ्रान्तो भवेत्, यावता विकल्पविषयमारोपिताकारं निश्चिन्वन् बाह्यं च वस्तु निर्विकल्पकज्ञानगोचरं पृथगेव तात्त्विकं तात्त्विकात्मना पश्यन् । कथं विपर्यस्तों नाम! यद्यविपर्यस्तः, कथमारोपयति विकल्पावस्थायामिति चेत् ? न; शब्दप्रवृत्त्यु-पायज्ञत्वात्। यतो नान्यमारोपकविकल्पव्यतिरेकेण [G.883] शब्दस्य समुत्थापकं पश्यति, नापि शब्दार्थमारोपितादन्यमुपलभते, अतः शब्दप्रवृत्त्युपायज्ञो जगदनुकम्पया यथावदधिगतं तत्त्वमप्रतिपाद्य परस्मै भाषितु समर्थः सँस्तत्प्रतिपादयिषया शब्दप्रवृत्त्युपायमारोपकं विकल्पमारोप्यं च शब्दाभिधेयमारचयति। एतच्च पश्चादाशङ्का चोद्यं परिहरिष्यति। अस्माभिस्त्वत्र प्रस्तावागतत्वादित्यभिहितम्। अत एव वक्तृत्वाद्रागित्वानु१. पूर्वावेषवशाल-पा०। . . २. भावयितु०-पा०, गा० । ३. ० भासेनार्थेऽना०-गा।
. ४. नासितुं-पा०, गा०।