________________
७४८
तत्त्वसंग्रहे मानमप्ययुक्तम्; अन्यथापि वचनप्रवृत्तिसम्भवात्। न हि रागादीनामेव कार्यं वचनस्पन्दादयः; वक्तुकामतासामान्यहेतुत्वात्। सा च वक्तुकामता वीतरागस्य करुणयापि सम्भवतीति व्यभिचारः। सैव करुणा राग इति चेत् ? नर; न नामकरणे किञ्चिदनिष्टमापद्यते। किन्तु नित्यसुखात्मीयदर्शनाक्षिप्तं साश्रववस्तुविषयं चेतसोऽभिष्वङ्गं रागमाहुः। तत्पूर्वकश्चात्मात्मीयोपरोधिनि प्रतिहति: द्वेषः । आत्मात्मीयग्रहश्च मोहः, न चैव कृपा; तस्या असत्यप्यात्मग्रहे दुःखविशेषदर्शनमात्रेणाभ्यासबलेनैवोत्पादात् । तथा हि वीतरागाणां धर्माद्यालम्बना मैत्र्यादयः शास्त्रे वर्णिताः ॥ ३३६३-३३६४॥
स्यादेतद्-यदि सर्वविषयज्ञानासम्मुखीभावमात्रं साध्यते, तथापि सिद्धसाध्यता भवेद्, यावता समस्तवस्तुतत्त्वविस्तरज्ञानाशक्तता श्साधयितुमिष्टा, अतो न सिद्धसाध्यता; नापि हेतोरसिद्धता, व्याहारसामर्थ्यमात्रस्य हेतुत्वेन विवक्षित्वात्? इत्यत आह
समस्तवस्तुविज्ञानशक्त्यपाकरणेऽपि ते। सन्दिग्धव्यतिरेकित्वं तदवस्थं प्रसज्यते॥३३६५॥ व्याहारवृत्तिसामर्थ्य हेतुत्वेनापि सम्मते। ..
सन्दिग्धव्यतिरेकित्वदोष एवानुवर्त्तते॥३३६६॥ उभयत्रापि पक्षे साध्यविपर्यये हेतोर्बाधकप्रमाणाभावात्। सन्दिग्धव्यतिरेकित्वेनानैकान्तिकता हेतोः ॥ ३३६५-३३६६॥ अथ येषामविकल्पतोऽपि भगवतो वचनप्रवृत्तिरिति पक्षः, तत्राह
"चक्रभ्रमणयोगेन निर्विकल्पेऽपि तायिनि। सम्भारावेगसामर्थ्याद् देशना सम्प्रवर्त्तते"॥३३६७॥
इति ये सुधियः प्राहुस्तान् प्रत्यपि न सिध्यति। [G.884] यथा हि चक्रस्योपरतेऽपि दण्डप्रेरणव्यापारे पूर्ववेगवशाद् भ्रमणम्, एवं भगवति प्रत्यस्तमितकल्पनाजालेऽपि स्थिते प्रवर्त्तत एव पूर्वपुण्यज्ञानसम्भारावेगवशाद् देशनेति सुधियः सौगताः केचन विज्ञानवादिनः प्रतिपन्नाः, तान् प्रति स्फुटतरमसिद्धतादोषो हेतोरवसीयत एव।
___ स्यादेतद्-अस्मिन् दर्शने सर्वेषामेव स्वप्रतिभासानुभवमात्रत्वात् परमार्थतो न कस्यचिद् वक्तृत्वमस्ति, किन्त्वध्यवसायवशादवदत्यपि परस्मिस्तथा प्रतिभासिविज्ञानोत्पत्तावधिपतिप्रत्ययभावेन स्थिते वक्तृत्वाभिभानो लोके, तदेवाध्यवसायिकं लोकप्रतीतं वक्तृत्वं हेतुत्वेनाभिप्रेतम् । न हि सिद्धान्तप्रसिद्धो हेतुर्धर्मी वा क्रियते, किं तर्हि ? लोकप्रतीत एवेत्यतो नासिद्धता हेतोः? इत्याशङ्कयाह
वक्तृत्वं यत्तु लोकेन मतमाध्यवसायिकम्॥३३६८॥
तत्र तादृशि हेतोः स्यात् सन्दिग्धव्यतिरेकिता। . अत्रापि पूर्ववत् सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकता हेतोः।
१-१. भाव-पा०। ३. ०मविकल्पयतो०-गा।
२-२. नामकरुणे-पा०: न नामकरुणया-गा० । ४.संरम्भावेधल-जै०/