________________
अतीन्द्रियार्थदर्शिपरीक्षा
७४९ ननिक्त्यादिना परो यदसिद्धत्वमत्र विज्ञानवादनये प्रोक्तं तद्विघटयति- .
ननु चासिद्धता केन मतेऽत्रानुपपत्तिके ? ॥३३६९॥ एवं मन्यते-य एव तूभयनिश्चितवाची, स ए साधनं दूषणं वा, नान्यतरप्रसिद्धः सन्दिग्धवाची; पुनः साधनापेक्षणादिति न्यायात्। अप्रमाणोपपन्नेऽस्मिन् विज्ञानवादमते कथमसिद्धतोद्भाव्यते, न हि स्वेच्छामात्रेण सिद्धत्वासिद्धत्वपरिकल्पनायां दूषणं भवति, किं तर्हि ? प्रमाणबलोपपादितायां सिद्धावसिद्धौ वा, न च प्रमाणबलाद् विज्ञाननयः सिद्धः; विस्तरेण निरस्तत्वात् ॥ ३३६९॥ उच्यत इत्यादिना प्रतिविधत्ते
उच्यते यदि वक्तृत्वं स्वतन्त्रं साधनं मतम्।
तदानीमाश्रयासिद्धः सन्दिग्धासिद्धताऽस्ति वा॥३३७०॥ [G.885) अत्र विकल्पद्वयमू-कदाचिद् वक्तृत्वं स्वातन्त्र्येण साधनं वाभिप्रेतं भवेत्, प्रसङ्गसाधनं वा । तत्राद्ये पक्षे विशेषेणाश्रयो न सिद्ध इत्याश्रयासिद्धता हेतोः । अथ सामान्येनाश्रयो विवक्षितः? तथापि यावत् प्रतिवादिनं प्रति प्रमाणेन वक्तृत्वं साध्यते तावत् सन्दिग्धासिद्धता; य एव तूभयनिश्चितवाची स एव साधनमिति न्यायात् ।। ३३७० ॥
अस्य चार्थस्य सन्देहात् सन्दिग्धासिद्धता स्थिरा।
प्रसङ्गसाधनं तस्मात् त्वया वक्तव्यमीदृशम्॥३३७१॥ अस्येति वक्तृत्वस्य । तस्मान्मा भूदयं दोष इति प्रसङ्गसाधनमङ्गीकर्त्तव्यं त्वया॥
तत्र चागममात्रेण सिद्धो धर्मः प्रकाश्यते। .. न तु तद्भावसिद्ध्यर्थं ज्ञापकं विद्यते परम्॥३३७२॥
तत्रापि प्रसङ्गसाधने य एवविचाररमणीयतयाऽऽगममात्रात् परस्य प्रसिद्धो धर्मः स एव साधनत्वेन प्रकाशनीयः परस्परविरोधोद्भावनाय, न त्वसौ प्रमाणेन साधनीयः; निष्प्रयोजनत्वात्। न च वक्तृत्वं परस्यागममात्रेण प्रसिद्धम्-इत्युभयथाऽप्रसिद्धता हेतोः ॥ ३३७२ ।।
एवमित्यादिनोपसंहरन् परोक्तेष्वर्थविपर्ययमादर्शयति. . . एवं यस्य प्रमेयत्ववस्तुसत्तादिलक्षणाः।
निहन्तुं हेतवोऽशक्ताः को न तं कल्पयिष्यति॥३३७३॥ . वेदवादिमुखस्थैवं युक्तिलौकिकवैदिकी। न काचिदपि शाक्योग्रसर्पज्ञानविषापहा॥३३७४॥ दृग्विषैरिह दृष्टोऽपि स्वल्पशक्तिर्द्विजो जडः। उच्छवासमपि नो कर्तुं शक्नोति किमु बाधितुम्॥३३७५॥ वेदवादिमुखस्था तु युक्तिः साध्व्यपि दुर्भगा।
कण्ठिका चरणस्थेव जघन्याश्रयसंस्थितेः॥३३७६॥ को न तं कल्पयिष्यतीति। सम्भवित्वेनेति शेषः । यतो बाधकानुपलम्भादेव तस्य सम्भावना सिध्यतीति भावः । आस्तां तावदेतत्-यदसाध्वी युक्तिर्वेदवादिमुखस्था नैव शोभत इति, नैवात्र चित्रम्; किन्तु साध्व्यप्याश्रयदोषेण भवतोच्यमाना न भ्राजते ॥३३७३-३३७६ ।। १. नान्यतराप्रसिद्धः-गा। २. सिद्धताथ-पा०,गा।
३. वासितुम्-जै०।