________________
७५०
तत्त्वसंग्रहे
कथम्? इत्याह
पावकाव्यभिचारित्वं धूमस्यापि न शक्यते। वक्तुं तेन यतो धूमस्तन्मतेऽन्यत्र वर्त्तते॥३३७७॥
एकवस्तुस्वरूपत्वादुदन्वत्यपि वर्त्तते। [G.886] धूमस्य दहनप्रतिबद्धजन्मतया' तदव्यभिचारित्वमागोपालमतिप्रतीतमेव, तस्यापि त्वया सर्वस्य जगतो वस्तुत्वादिना पारमार्थिकमैक्यं वर्णयता दहनाव्यभिचारत्वं न शक्यं प्रतिपादयितुम्; वस्तुरूपत्वेनोदकेऽस्य भवन्मतेन धूमस्य परमार्थतो वृत्तेः।
स्यादेतत्-तत्राप्युदन्वनि धूमबद्वस्तुरूपत्वेनानलस्यापि सद्भावात् अव्यभिचारितैव? इत्याह
तत्राप्यनलसद्भावे व्यतिरेकः किमाश्रयः॥३३७८ ॥ तत्राप्युदन्वति तादात्म्येन यद्यनलस्वभावोऽङ्गीक्रियते, तदाऽनले साध्ये जलादिर्न विपक्ष: स्यात्, ततश्च विपक्षाभावाद् धूमादेर्लिङ्गस्य किमाश्रयो विपक्षाद् व्यतिरेको भवेत् ? ॥३३७८॥
तद्रूपकार्यविज्ञप्तिः किं वा तत्रापि नो भवेत्।
विलक्षणात्मभावे वा.वस्तुभेदोऽस्तु तात्त्विकः ।। ३३७९॥ यदि जलधौ परमार्थतो दहनोऽवस्थित इति मतम्, किमिति तद्रूपोपलब्धिर्दाहपाकादिलक्षणकार्यनिर्भासा च विज्ञप्तिर्न जायते ! वैलक्ष्यण्यमपीष्टमिति चेद् ? आह-विलक्षणात्मेत्यादि। एतच्च विस्तरेण स्याद्वदपरीक्षायां विचारितमित्यास्तां तावदेतत् ॥ ३३७९ ॥ [G.887].यदुक्तम्-"एकेनैव प्रमाणेन" (तत्त्व० ३१५७) इत्यादि, तत्राह
समस्तवस्तुसम्बद्धतत्त्वाभ्यासबलोद्गतम् । सार्वज्ञं मानसं ज्ञानं मानमेकं प्रकल्प्यते॥३३८०॥ न तु नेत्रादिविज्ञानं ततः किमिदमुच्यते। नूनं स चक्षुषा सर्वान् रसादीन् प्रतिपद्यते॥ ३३८१॥ सिद्धं च मानसं ज्ञानं रूपाद्यनुभवात्मकम्। अविवादः परस्यापि वस्तुन्येतावति स्फुटः॥ ३३८२॥ वर्ण्यते हि स्मृतिस्तेन रूपशब्दादिगोचरा। स्पप्ने च मानसं ज्ञानं सर्वार्थानुभवात्मकम्॥ ३३८३॥ ततश्चानियतार्थेन मानसेन प्रकल्पिते। सर्वज्ञे चक्षुषा कस्माद् रसादीन् प्रतिपद्यते॥३३८४॥ चाक्षुषेणैव तत्क्लृप्तावयं दोषो भवेदपि। मानसेन तु चित्तेन वेत्त्येव सर्व रसादिकम्॥३३८५॥
यत्राप्यतिशयो दृष्टः स्वस्वार्थानतिलङ्घनात्। २. ०जन्म तथा--पा०, गा०। २. वस्तुस्वरूप०-पा०, गा०। ३-३. पाठोऽयं पा०, गा० पुस्तकयो स्ति। ४-४. सर्वात्रसान्–गा। ५. समासेन-पा०, गा०। ६. च-पा०, गा०।