SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७५१ दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तितः॥३३८६॥ इत्यादिकमंतोऽनिष्टं परैरुक्तं न नो यतः। स्वार्थाविलङ्घनेनैव मानसेऽतिशयो मतः॥३३८७॥ यजातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनम्। दृष्टं सम्प्रति लोकस्य तथा कालान्तरेऽपि नः ॥३३८८॥ [G.887] यदि चक्षुरादीन्द्रियधियां सर्वार्थपरिज्ञानमभ्युगतं भवेत्,तदा भवेद् यथोक्तदोषप्रसङ्गः, यावता समस्तवस्तुगतानित्यत्वादिलक्षणाशेषतत्त्वाभ्यासकर्षपर्यन्तं येन मनोविज्ञानेन सत्त्वार्थगोचरेण स्फुटप्रतिभासाविसंवादित्वाभ्यां प्रत्यक्षतामुपगतेन युगपदशेषवस्तुग्रहणात् सर्वविदिष्टः, न तु चक्षुरादिधिया। न च मनोज्ञानं सर्वार्थगोचरतया न प्रसिद्धमिति युक्तं वक्तुम्; यतो भवताऽपि रूपशब्दादिविषयं स्मार्तं ज्ञानमुपवर्णितम्, तच्च मनोज्ञानमेव । स्वप्ने च रूपादिप्रतिभासमतिप्रतीतमेवेति नास्यापह्नवः शक्यक्रियः । तेन स्वार्थाविलङ्घनेनैवातिशयस्येष्टत्वान्नास्माकं किञ्चिदनिष्टमापादितं भवता ।। ३३८०-३३८८ ॥ यस्यापि ज्ञानवादिनोऽक्षधिया सर्वविदिष्टः, तस्यापि दोष:३; दौष्ठल्यवासनाया: प्रहाणे सति सर्वार्थवृत्तित्वेन सर्वधियां विभुत्वलाभस्येष्टत्वात् । दौष्ठल्यवासनैव हि धियां नियमकारणम्, तत्प्रहाणे सति कुतो नियतार्थविषयत्वमासां सम्भवेत् ?–इति मन्यमान आह विशुद्धं वा भवेज्ज्ञानं सर्वं । सर्वार्थगोचरम्। हेतोः सम्भाव्यते कश्चित् फलेऽप्यतिशयः क्वचित्॥३३८९॥ न हि सूक्ष्मफला दृष्टा आमलक्यो मराविति। .. सर्वास्तत्त्वेन तद्रूपा अन्यत्रापि भवन्ति ताः॥३३९०॥ 'श्रृण्वन्ति चक्षुषा सर्पाः' इत्येषापि श्रुतिस्ततः। सम्भाव्यार्था विचित्रा हि सत्त्वानां कर्मशक्तयः॥३३९१॥ कारणभेदेन हि भावानां स्वभावभेदप्रतिनियमान्न शक्यते क्वचिदेकदा दृष्टस्य वस्तुनः सर्वत्र सर्वदा तथा भावो निश्चेतुम्, न हि सूक्ष्मफला आमलक्यो मरुषु समुपलब्धा इत्येतावता सर्वत्र देशे सत्यपि कारणभेदसम्भवे तथात्वेनावधारयितुं दर्शनमात्रेण प्रेक्षावन्तो युक्ताः । तेन चक्षुषापि योगाभ्यासविशेषबलशलाकोन्मीलितेन कश्चिदपि सर्वार्थान् पश्यतीत्यविरुद्धम् ॥ ३३८९-३३९१॥ (G.888] "यज्जातीयैः'' (तत्त्व० ३१५८) इत्यादावाह- . यस्याध्वत्रितयस्थं हि सर्वं वस्त्ववभासते। तथा नियतसामर्थ्य वक्तुमित्थं स शोभते ॥३३९२॥ .. तथा नियतसामथ्र्यमिति । तेनेष्टरूपेण नियतसामर्थ्यं सर्वं वस्त्ववभासत इति सम्बन्धः ॥ ३३९२॥ कीदृशं तद्वक्तुं शोभते? इत्याह१. ०दृष्टं-जै० पुस्तके पाठा०। २-२. ० पर्यन्तजेन-पा०, गा० । ३.-३. दोषादौष्कुल्य०- पा०, दोषदौष्कुल्य०- गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy