________________
७५२
तत्त्वसंग्रहे यजातीयैः प्रमाणैस्तु यजातीयार्थदर्शनम्। भवेदिदानी लोकस्य तथा कालान्तरेऽप्यभूत्॥३३९३॥ इदानीमपि लोकस्य शक्तिर्ज्ञातुं न शक्यते। भवता जन्तुमात्रेण सर्वशक्त्यविनिश्चयात्॥३३९४॥
निःशेषसत्त्वशक्तीनां ज्ञाने सर्वज्ञता बत ! स्यादेतत्-न वयं प्रत्यक्षतो ज्ञात्वैवं ब्रूमः-'तथा कालान्तरेऽप्यभूत्' (तत्त्व ३१५८) इति, किं तर्हि ? अनुमानात्; यत्प्रमाणं यज्जातीयार्थग्राहि दृष्टम्, तत्कालान्तरेऽपि तथैवाभूत्, प्रमाणत्वादिति ? तत्राह
न चानुमानतः सिद्धिरन्यथाभावशङ्कया॥३३९५॥ आमलक्यादिवद्धेतुविशेषेण कार्यस्य विशेषदर्शनात् । अन्यथापि विजातीयार्थग्रहणद्वारेण सम्भाव्यमानत्वादनैकान्तिकता हेतोः॥ ३३९५ ॥ "येऽपि सातिशया दृष्टाः" (तत्त्व० ३१५९) इत्यादावाह
अतीन्द्रियार्थविज्ञानयोगेनाप्युपलभ्यते । प्रज्ञादिगुणयोगित्वं पुंसां विद्यादिशक्तितः ॥ ३३९६ ॥ अस्ति हीक्षणिकाद्याख्या विद्यायां सुविभाविता। . परचित्तपरिज्ञानं करोतीहैव जन्मनि ॥३३९७॥ श्रुतानुमितदृष्टं च यन्न वस्त्वत्र जन्मनि। भूतं भवद् भविष्यच्च तद् विदन्ति वदन्ति च॥३३९८ ॥ ससंवादमभिव्यक्तमाविष्टाः पुरुषा इह। विचित्रमन्त्रनागेन्द्ररक्षोयक्षादिशक्तित: ॥३३९९॥ मा वा भूद् दृष्टमित्यादि तथाप्यत्र न बाधकम्।
किञ्चित् प्रमाणमस्तीति तदभावो न सिध्यति॥३४०० ॥ [G.889] न त्वतीन्द्रियार्थदर्शनादित्यसिद्धमेतत्, तथा हि-ईक्षणिकादिविद्याबले. डाकिन्यादीनां परचित्तज्ञानं भूतभवद्भविष्यद्वस्तुपरिज्ञानं चोपलभ्यत एव ।आदिशब्देन गान्धाः रीप्रभृतीनां ग्रहणम्। विचित्रभूतग्रहाद्यावेशबलाच्चातीन्द्रियार्थपरिज्ञानदर्शनादन्यत्राप्यप्रतिक्षेपः मा भूद्वा व्यभिचारविषयदर्शनम्, तथाप्यदर्शनमात्रेण सर्वविदों नाभावो निश्चेतुं युक्तः तदभावः अतीन्द्रियार्थदृगभावो न सिध्यति ॥ ३३९६-३४०० ।। "प्राज्ञोऽपि हि" (तत्त्व० ३१६०) इत्यादाह
उक्तेन च प्रकारेण वेदकारे प्रसाधिते। अवश्याभ्युपगन्तव्यस्त्वयाऽतीन्द्रियदृग् नरः॥३४०१॥ अतः प्राज्ञो नरः सूक्ष्मानर्थान् द्रष्टं क्षमो भवेत्।
सजातीरप्यतिक्रामन् परानभिभवेन् नरान्॥३४०२॥ ५ १. विशेषणकार्यस्य- पाल, गा० ।
२. महाच्चावेश०-पा०/ ३. प्यतिमात्रेण.--- पा०, प्यप्रतिलाभमात्रेण-गा० ।