________________
अतीन्द्रियार्थदर्शिपरीक्षा
उक्तेति । श्रुतिपरीक्षायाम् ॥ ३४०१-३४०२ ॥
अत्रैवोपपत्तिमाह
शक्ति: प्रविशिष्यत इति सम्भाव्यम् ॥ ३४०३ ॥
नाह
यथा स्वविषये शक्तिः श्रोत्रादेः प्रविशिष्यते ।
गतियोगविशेषाद्यैर्मनसोऽपि तथा भवेत् ॥ ३४०३ ॥
यथा गतिविशेषेण च श्रोत्रादेः स्वार्थशक्िितर्विशिष्यते, तथा मनसोऽपि हेतुविशेषेण
तत्र गतिविशेषकृतं श्रोत्रादेर्विशेषं दर्शयति
तथा हि वीक्ष्यते रूपं गृधैर्दूरतरस्थितम् ।
तिरस्कृतं निधानादि तथा सिद्धाञ्जनादिकैः ॥ ३४०४ ॥ योगविशेषकृतमप्याह – तिरस्कृतमित्यादि । सिद्धाज्ञ्जनादिकैरिति । वीक्ष्यत इति सम्बन्धः । हेतौ करणे वा तृतीयेयम् ॥ ३४०४ ॥
एवं गतिविशेषस्य ज्ञानशक्तिविशेषं प्रति हेतुभावं प्रसाध्य दान्तिकेऽर्थे योजय
एवं गतिविशेषेण देवादेर्दर्शनं भवेत् ।
सूक्ष्मव्यवहितादीनां स्वोपपत्त्यानुरूप्यतः’॥ ३४०५ ॥
स्वोपपत्त्यानुरूप्यत इति। अधस्तादेषां ज्ञानदर्शनं प्रवर्त्तते नोर्ध्वमित्येवं [G.890)] यथास्वमुपपत्त्या आनुरूप्येण ज्ञानं भवच्चातुर्महाराजकायिकादीनां देवानां केन वार्यते !
॥ ३४०५ ॥
योगकृतमपि विशेषं योजयति
७५३
योगाभ्यासविशेषाच्च योगिनां मानसं तथा ।
* ज्ञानं प्रकृष्टरूपं स्यादित्यत्रास्ति न बाधकम् ॥ ३४०६ ॥ यदि तु पुनर्यथोक्तगतियोगादिकारणासम्भवमुपदर्थ्यातिशयनिषेधः क्रियते, तदा सिद्धसाध्यतेति दर्शयन्नाह
गतियोगादिवैकल्ये ज्ञाने त्वतिशयो यदि ।
क्षिप्यतेऽयुक्तमेतद्धि हेत्वभावात् फलं न हि ॥ ३४०७॥ यथा शास्त्रान्तरज्ञानं तन्मात्रेण न लभ्यते । उत्तरोत्तरतद्धेतुवैकल्ये ऽतिशयस्तथा ।। ३४०८ ॥
देवानाम्। यच्चोक्तम्--‘' श्रोत्रगम्येषु " ( तत्त्व० ३१६१ ) इत्यादि, तदप्यनेनैव प्रत्युक्तम्; अदर्शनमात्रेण तथाविधस्यातिशयस्य प्रतिषेद्धुमशक्यत्वादित्यभिप्रायः || ३४०७
३४०८ ॥
यच्चोक्तम्–“ एवं शास्त्रविचारेषु" (तत्त्व० ३१६३ ) इत्यादि तत्राहन चैकदेशविज्ञानात् सर्वज्ञानास्तितोच्यते ।
२. मोपपत्त्य -- जै० पुस्तके पाठा।
१. अतिपरीक्षायाम्- पा० ।
३. भवच्चानुमहा० पा०. भवज्जातुमहा- गा० ।