________________
७५४
तत्त्वसंग्रहे येन वेदादिविज्ञानात् स्वर्गाद्यध्यक्षता भवेत्॥३४०९॥ किन्तु प्रज्ञाकृपादीनामभ्यासाद् वृद्धिदर्शनात्। अन्योऽप्यतिशयस्तस्माद् वर्धमानात् प्रतीयते॥३४१०॥ मनोगुणतयाप्येषां काष्ठापर्यन्तसम्भवः । नैधृण्यवन् महाभ्यासान्निष्ठाऽशेषार्थबोधनात्॥३४११॥ धर्मावबोधरूपा' हि प्रज्ञा लक्षणतः स्थिता।
एकस्याप्यपरिज्ञाने साऽसमाप्तव वर्त्तते॥३४१२॥ न ह्यस्माभिरेकदेशपरिज्ञानमात्रादशेषपदार्थपरिज्ञानमभ्युपगम्यते, येनाभ्यधायि भवता-'न' शास्त्रन्तरज्ञानं तावन्मात्रेण लभ्यते' इति; किन्त्वभ्यासवशात् प्रज्ञाप्रकर्षोपलम्भादन्योऽप्यतीन्द्रियार्थपरिज्ञानकृतो विशेषस्तस्मादभ्यासाद् वर्धमानात् प्रकर्षविशेषं प्राप्ताद् भवतीति सम्भाव्यते। एतच्च पूर्वं प्रसाधितं पुनरपि भूयः प्रमाणयति। प्रयोग:-ये ये मनोगुणास्तेऽभ्यासातिशये सति सम्भवत्प्रकर्षपर्यन्तवृत्तयः, यथा [G.891| श्रोत्रियजोदिङ्गनैधुण्यम्। मनोगुणश्च प्रज्ञेति स्वभावहेतुः । न चानैकान्तिकता हेतोः, प्रज्ञायाः पदार्थस्वभावबोधलक्षणायाः प्रकर्षपर्यन्तगमनं नाशेषार्थपरिज्ञानमन्तरेण सम्भवति। नाप्यप्रसिद्धविशेषणतया हेतोरसिद्धता, पूर्वमभ्यासविशेषसम्भवस्य विस्तरेण प्रसाधितत्वात्। काष्ठाशब्दः प्रकर्षपर्यायः ॥ ३४०९३४१२॥
ये वा समानजातीयपूर्वबीजप्रवृत्तयः । तेऽत्यन्तवृद्धिधर्माणः संस्कारोत्कर्षभेदतः ॥ ३४१३॥ व्रीह्यादिवत् सम्भविनो दयामत्यादयोऽपि च।।
यथाभिहितधर्माणः प्रवृद्धौ सर्वदर्शिता ॥३४१४॥ अथ वा-ये तुल्यजातीयपूर्वबीजप्रसूतयः, ते संस्कारविशेषे सत्यत्यन्तवृद्धिधर्माण: सम्भविनः, यथा व्रीह्यादयः। यथोक्तधर्माणश्च दयाप्रज्ञादय इति स्वभावहेतुः। अत्रापि पूर्ववदसिद्धानैकान्तिकता न भवति । मतिः प्रज्ञा । यथाऽभिहितधर्माण इति । समानजातीयपूर्वबीजप्रवृत्तय इत्यर्थः ॥ ३४१३-३४१४॥
ये चापचयधर्माणः प्रतिपक्षस्य सन्निधौ। अत्यन्तापचयस्तेषां कलधौतमलादिवत्॥३४१५॥ सम्भाव्यते तथा चामी क्लेशज्ञेयानृतादयः। यथोपदिष्टधर्माणस्तत्प्रहाणेऽमला धियः॥ ३४१६॥ यथोक्तधर्मणामेषां सम्भाव्यो यदि वा मलः।
अत्यन्तोन्मूलने दक्षः प्रतिपक्षस्तथैव हि॥३४१७ ।।. अथ वा-ये प्रतिपक्षसन्निधावपचयधर्माणो दृष्टाः, ते प्रतिपक्षात्यन्तवृद्धौ सत्यां सम्भवदत्यन्तापचयधर्माणः,यथा कनकमलादि । नैरात्म्यादिलक्षणप्रतिपक्षसंमुखीभावे चापच१. अर्थावबोधल-गा।
२. न तु -गा। ३. तीन्द्रियपरि०-पा०, गा० । ४. ०लक्षणसंमुखी०-पा०, गा०।