________________
अतीन्द्रियार्थदर्शिपरीक्षा
७५५ यधर्माणो रागादय इति स्वभावहेतुरिति । न चासिद्धता हेतोः; नैरात्म्यज्ञानेन सह क्लेशादेविरोधस्य प्रसाधितत्वात्। नाप्यनैकान्तिकता; प्रतिपक्षात्यन्तवृद्धौ सत्यां विपक्षस्यावस्थानसम्भनवात् । अन्यथा योऽत्यन्तमुन्मूलयितुमसमर्थः स कथमल्पमप्यपचयं कुर्यात् ! न हि स्फुटतरस्फुरत्स्फुलिङ्गमालोज्ज्वलज्वलनकलापान्तर्गतमपि वज्रमपचयमनुभवति कदाचित् । न चापि विपक्षस्यात्यन्तवृद्ध्यसम्भवादनैकान्तिकता; पूर्वं विस्तरेणात्यन्तवृद्धिसम्भवस्य प्रसाधितत्वात् ।
अथ वा-ये प्रतिपक्षसन्निधावपचयधर्माणः, ते [G.892] सम्भवदत्यन्तोन्मूलनदक्षप्रतिपक्षाः, तद्यथा कनकमलादि। यथोक्तधर्माणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः । अत्रापि पूर्ववदसिद्धानैकान्तिकते परिहार्ये। आदिशब्देन कर्मावरणादिपरिग्रहः ॥ ३४१५
३४१७॥
अथ वा-ये तत्त्वदर्शननिबन्धकारिणस्ते सम्भवदत्यन्तापचयाः, यथा बाह्यं शार्वरं तमः । तत्त्वदर्शननिबन्धकारिणश्च क्लेशज्ञेयावरणादय इति स्वभावहेतुः । न चास्यानैकान्तिकतेति दर्शयन्नाह
तत्त्वदृष्टिनिबन्धत्वादत्यन्तापचयः क्वचित्। बाह्यस्येवास्य तमस आन्तरस्यापि गम्यते॥३४१८॥ तस्य चापचये जाते ज्ञानमव्याहतं महत्।
स्वातन्त्र्येण प्रवर्तेत सर्वत्र ज्ञेयमण्डले॥३४१९॥ तस्य-आन्तरस्य तमसः ॥ ३४१८-३४१९ ॥
ये वा स्थिराश्रये वृत्ताः कथञ्चिदपि चाहिताः। तद्भावायापुनर्यनव्यपेक्षा बाधकेऽसति॥३४२०॥ संस्कारोत्कर्षभेदेन काष्ठापर्यन्तवृत्तयः । ते सम्भवन्ति विस्पष्टं शातकुम्भविशुद्धिवत्॥३४२१॥ यथाऽभिहितधर्माण इमे मतिदयादयः।
तेषां पर्यन्तवृत्तौ च सर्ववित्त्वं प्रभास्वरम्॥ ३४२२॥ अथ वा-ये स्थिराश्रयवर्तिनः सकृच्च यथाकथञ्चिदाहितविशेषाः सन्तोऽसति विरोधिप्रत्यये तद्भावायापुनर्यत्नापेक्षिणः, ते संस्कारोत्कर्षभेदेन सम्भवत्प्रकर्षपर्यन्तवृत्तयः, तद्यथा कनकविशुद्ध्यादयः । यथोक्तधर्माणश्च प्रज्ञाकृपादय इति स्वभावहेतुः ॥ ३४२२ ॥
लङ्घनोदकतापाभ्यां न चेह व्यभिचारिता।
न हि तल्लङ्घनादेव लङ्घनं बलयत्नयोः ॥३४२३॥ लङ्घनोदकतापाभ्यां न चेह व्यभिचारितेत। सविशेषणत्वादित्यभिप्रायः । न हि लङ्घनोदकतापौ सकृदाहितौ पुनराधानाय यत्नादिनिरपेक्षौ वर्तेते। नापि स्थिराश्रयौ। यदि वाऽत्रापि समानजातीयबीजवृत्तित्वे सतीति विशेषणापेंक्षणादव्यभिचारो लङ्घनेनेति मन्यमान आह- न हि तल्लङ्घनादेवेति । तल्लङ्घनं न हि लङ्घनादेव जायते । कस्मिन् सति नाम जायते? १.बलवत्तयो:-जै० पुस्तके पाठा० ।