________________
७५६
तत्त्वसंग्रहे इत्याह- लङ्घनं बलयलयोरिति । बले यत्ने च सति लङ्घनं भवति,न तु लङ्घने सति । तयोश्च बलयत्नयोः स्थितशक्तितया लङ्घनस्यापि [G.893] स्थितात्मतेति भावः।
. स्यादेततद्-यदि बलयत्नाभ्यामेव लङ्घनं भवति न लङ्घनात्, एवं सत्यभ्यासे यादृशं लङ्घनं पुरुषस्य भवति तादृगभ्यासात् प्रागपि प्राप्नोतीति ? नैष दोषः; प्राक्तनस्य श्रेष्मादिना देहस्य विगुणत्वात् पश्चाद्वन्न लङ्घनमुपजायते। पश्चात्तु शनैः प्रयत्नेन देहवैगुण्येऽपनीते सति यथाबलमेवावतिष्ठते लङ्घनम्। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा यदि लङ्घनादेव लङ्घनं स्यात्, तदा लङ्घनस्य व्यवस्थितोत्कर्षता न स्यात् ।। ३४२३ ॥ ___अथ वा-लङ्घनस्यापि हेतुविशेषापेक्षिणः स्थितोत्कर्षताया असिद्धेर्न तेन व्यभिचार इति दर्शयति
यदि वा लङ्घनस्यापि काष्ठापर्यन्तवृत्तिता। समाधिबलगत्यादिविशेषात् स्यात् स्वहेतुतः ॥ ३४२४॥ . ऋद्धिर्मनोजवासंज्ञा' तथा च श्रूयते परा।। यया' चिन्तितमात्रेण याति दूरमपि प्रभुः॥३४२५ ॥ • न चाप्यदृष्टिमात्रेण तदभावः प्रसिध्यति।
न चात्र बाधकं किञ्चिद् वक्तुमत्र परः क्षमः ॥३४२६॥ तथा हि-समाधिबलविशेषप्रयोगाल्लङ्घनस्यास्माभिरिष्यत एवात्यन्तप्रकर्षवर्तित्वम्, यथा भगवतः ‘मनोजवा' नाम सिद्धिः पठ्यते,यस्यां स्थितस्य मनस इव जवो भवति । अत एव सा 'मनोजवा' इति प्रख्याता। न चास्या बाधकं प्रमाणमस्ति । नाप्यदर्शनमात्रेण प्रतिक्षेपो युक्त:: अतिप्रसङ्गात् ॥ ३४२४-३४२६ ॥
अपि च-दृश्यत एवाश्रये विशेषोपाधिकादभ्यासविशेषाद् गतेरत्यन्तविशेषः, ततोऽपि भगवतस्तादृशी गतिः सम्भविनीति दर्शयन्नाह
राजहंसशिशुः शक्तो निर्गन्तुं न गृहादपि। याति चाभ्यासभेदेन पारमम्भःपतेरपि॥ ३४२७॥ आश्रयोपाधिकाभ्यासभेदादस्य गतिर्यथा। तादृशी तादृशादेव किं न सम्भाव्यतेऽधिका॥३४२८॥ बोधिसत्त्वदशायां हि न शक्तस्तादृशीं गतिम्।
प्राप्तुं प्राप्ते समाधौ तु विशिष्टे शक्नुयान्मुनिः। ३४२९॥ यथा च राजहंसशाव: प्राक् स्वकुलायादपि निर्गन्तुमशक्त: पश्चादल्पीयस्यप्यभ्यासे {(6,894| सति समुपजातपक्षो जलधेरपि पारमुत्पतति, तद्वदन्योऽप्याश्रयविशेषोपाधिकादभ्यामाद विशिष्टामपि गतिमासादयतीति सम्भाव्यम् । पक्षविशेषलाभादेवासौ दूरतरदेशगामी भवतीति नाभ्यासबलेनेति चेत् ? न हि सञ्जातपक्षोऽपि सहसैवोड्डीय गच्छन् दृश्यते शकुनिशावः, किं तर्हि ? शाखान्तराच्छाखान्तरगमनक्रमेणाभ्यस्य कियन्मात्रं गमनं पश्चादपास्तशङ्को दूरतरमपि देशं वति।
पमा-पालगा।
३. यथा-पालगा०