________________
७४२
तत्त्वसंग्रहे
सौगताः। अत एवाखण्डितमहिमत्वमेषामसिद्धम् । विरोधोऽपि नैरात्म्यदर्शनेनैषामत एव व्यवस्थाप्यते; तत्सम्मुखीभावे सत्यपकर्षात् । तथा हि यदुपधानादपकर्षधर्माणस्ते तदत्यन्तवृद्धौ निरन्वयसमुच्छित्तिधर्माणो भवन्ति, यथा सलिलादिवृद्धावग्निज्वाला' । नैरात्म्यज्ञानोपधानाच्चापकर्षधर्माणो दोषा इति तदत्यन्तवृद्धौ कथमवस्थां लभेरन् ! अतो नानैकान्तिकता हेतोः । सपक्षे भावाच्च न विरुद्धता ॥ ३३३७ ॥
एवं क्लेशावरणप्रहाणं प्रसाध्य ज्ञेयावरणप्रहाणं प्रतिपादयत्राहसाक्षात्कृतिविशेषाच्च दोषो नास्ति सवासनः । सर्वज्ञत्वमतः सिद्धं सर्वावरणमुक्तितः ॥ ३३३८ ॥ [G.876] साक्षात्कृति:’=साक्षात्करणम् । कस्य ? नैरात्म्यस्येति प्रकृतत्वाद् गम्यते । तस्याविशेषः=बहुशो बहुधापायं कालेन बहुना सर्वाकारेण तत्र तद्विपक्षे च गुणदोषाणामत्यन्तप्रकाशीभावः । अत एव श्रावकादेर्नैरात्म्यदर्शनेऽपि न सर्वज्ञत्वम् । तथाविधान्तराभ्यासवि-. शेषाभावेन ज्ञेयावरणस्याप्रहाणात् । प्रयोगः:- या सादरनैरन्तर्यदीर्घकालविशेषणा भावना सा करतलायमानग्राह्यावभासमानज्ञानफला, तद्यथा कामातुरस्य कामिनीभावना । यथोक्तविशेषणत्रययुक्ता च सर्वाकारसर्वगतनैरात्म्यभावना* कारुणिकस्येति स्वभावहेतुः । न चासिद्धो हेतुः; कारुणिकस्यार्थित्वेन तथा प्रवृत्तिसम्भवस्य प्रतिपादितत्वात् । नाप्यनैकान्तिकत्वम्; यतः सर्वधर्मगतनैरात्म्यालम्बनस्य मनोविज्ञानस्य धर्मिणो यथोक्तविशेषणत्रययुक्तभावनासंस्पृष्टत्वेन हेतुना स्फुटप्रतिभासित्वं साध्यम् ।
एतेन च साध्यधर्म्येण यथोक्तसाधनधर्मस्य व्याप्तिः सिद्धा । कारणान्तरानपेक्षित्वात् स्फुटप्रतिभासित्वस्य । ततश्च सामर्थ्यात् सर्वज्ञत्वेनापि व्याप्तिः सिद्धा । यस्मात् सर्ववस्तुगतनैरात्म्याद्यालम्बनस्य मनसो धर्मिणो' यत् स्फुटप्रतिभासित्वं तदेवास्य सर्वज्ञत्वम्, नान्यत् । तथा हि-भाव्यमानवस्तुस्फुटप्रतिभासित्वेन भावनायाः सामान्येन व्याप्तौ सिद्धायां सामर्थ्यात् सर्वज्ञत्वेनापि सिद्धैव; यथोक्तधर्मिण्यन्यस्य स्फुटप्रतिभासित्वस्यासम्भवात्। एतेन ये सत्तासाधने दोषाः प्रोक्तास्ते प्रत्युक्ताः; सर्वज्ञसत्ताया असाध्यत्वात्, प्रसिद्धे मनसि धर्मिणः स्फुटप्रतिभासित्वस्य साध्यत्वात्। एवमनेन प्रकारेण प्रसिद्धात् साक्षात्कृतिविशेषात् कायवाग्बुद्धिवैगुण्यलक्षणाया दोषवासनायाः प्रहाणात् सिद्धमावरणद्वयप्रहाणम् ।
अतः सर्वावरणविमुक्त्या सिद्धं सर्वज्ञत्वम् ॥ ३३३८ ॥
स्यादेतद्-यदि नाम सामान्येन सिद्धम्, सुगते तु न सिद्धम् ? इत्याहएतच्च सुगतस्येष्टमादौ नैरात्म्यकीर्त्तनात् ।
सर्वतीर्थकृतां तस्मात् स्थितो मूर्ध्नि तथागतः ॥ ३३३९ ॥
एतद्=यथोक्तं सर्वज्ञत्वं सुगतस्यैवेष्टम् = सिद्धम्, न कपिलादेः । कस्मात् ? आदौ नैरात्म्यकीर्त्तनात् । एतदुक्तं भवति - येनेदं सर्वपदार्थानां स्कन्धपञ्चकत्वादिदेशनया सर्वाकारमादौ प्रथमतो नैरात्म्यं कीर्त्तितम् स एवादौ सर्वधर्माणां विचित्रप्रभेदनैरात्म्यकीर्तनात्
१. सलिलावृद्धा - पार. गा। ४. सर्वमत - पा. गा।
२. पा. गा० पुस्तकयोर्नास्ति । ३. बहुधोपायै:- गा० !
५. पा०. गा० पुस्तकयोर्नास्ति ।