________________
- अतीन्द्रियार्थदर्शिपरीक्षा
७४१ नापि रागादिपर्यवस्थानकृतः कायचित्तपरिदाहोपद्रवोऽस्ति । नापि जन्मप्रतिबद्धो व्याधिजराद्युपद्रव:१; जन्महेतोः क्लेशस्याभावात्। नापि साश्रवसुखोपभोगवद् वैरस्योपद्रवः; प्रशमसुखरसस्यैकान्ततयाऽनुद्वेगकरत्वात्। तन्नास्य हानाय यत्नो युक्तः । अपि तु यदि भवेदपरिहाणायैव भवेत्; बुद्धेः प्रकृत्या गुणपक्षपातात्।
नापि दोषापादानाय प्रयत्नः, तेषां सर्वोपद्रवास्पदत्वेन दुष्टत्वात् । तस्मात् सम्भविनी नैरात्म्यभावना। तस्याश्च प्रकर्षपर्यन्तगमनात् स्फुटप्रतिभासज्ञानफलत्वं दृष्टम्, यथा कामिनी भावयतः कामातुरस्य। तथा हि-तस्य सविभ्रमाः पश्याम्युपगृह इत्येवं वाच: कायव्यापाराश्चाभिप्रायानुरूपाः साक्षात्कारिनिबन्धनाः प्रवर्तन्ते । तस्मान्नासिद्धो हेतुः । नाप्यनैकान्तिकः; यतो नैरात्म्यदर्शनस्य भूतार्थविषयत्वेन बलवत्त्वम्; आत्मदर्शनस्य तु विपर्ययाद् विपर्यय इति भवति विपक्षप्रतिपक्षभावः । रागद्वेषयोरप्यभूतात्मग्रहसंस्पर्शेन प्रवृत्तेर्न तयोविरुद्धरूपग्रहणनिमित्तो विपक्षप्रतिपक्षभावः।
___ नापि विपर्यासात्; अविपर्यासकृतोईयोरपि विपर्यस्तत्वात्। नाप्यनयोर्विरोधः सिद्धः; द्वयोरप्यात्मग्रहैकयोनित्वात्, कार्यकारणभावाच्च। तथा हि-सत्यात्मात्मीयाभिष्वङ्गे तदुपरोधिनि द्वेषो जायते, नान्यथा। न चांभिन्नकारणयोः कार्यकारणभूतयोर्बाध्यबाधकभावो युक्तः, यथा वह्निधूमयोरेकेन्धनप्रभवयोः, यथा वात्मग्रहस्नेहयोः; अतिप्रसङ्गात् । युगपदनुत्पत्तिस्तु तदुपादानचित्तस्य युगपत् सजातीयचित्तद्वयाक्षेपासामर्थ्यात्।[G.875] नापि सुखदुःखयोः परस्परं विरोधः, तथा हि द्विविधे सुखदुःखे-मानसे, विषयजे च। तत्र ये तावन्मानसे, तयोर्तेषानुनयसम्प्रयोगित्वाद् रागद्वेषाभ्यामेकयोगक्षेमतया तद्विपर्यस्तत्वमभिन्नात्मरूपग्राहित्यमात्मग्रहैकयोनित्वं कार्यकारणभावश्चेति न परस्परं विरोधः सम्भवति। ये च विषयजे, तयोरपि परस्परं कारणभेदाप्रतिनियमान विरोधः । तथा हि-यत एव सुखमुत्पद्यते तत एवातिसेव्यमानत्वाद् दुःखमपीति नानयो: कारणभेदप्रतिनियमोऽस्ति, न त्वेवं नैरात्म्यदर्शनस्येतरेण । किञ्च-द्वयोरप्यनयोर्विषयबलभावित्वेन तुल्यबलत्वम्, न तु मार्गदोषयोः; मार्गस्यैव भूतार्थविषयत्वेन बलवत्त्वात्, न दोषाणाम्। अपि खलु सुखदुःखेऽचिरस्थितिके, न तु पुनरेवं नैरात्म्यदर्शनम्। तस्य सात्मत्वेन सदाऽनपायादिति पूर्वमुक्तम्, अतो न व्यभिचारः । युगपदनुत्पत्तेस्तु कारणमुक्तम्। ____यत् पुनरुक्तम्-अनुमानबलावधारितनैरात्म्यानामपि समुत्पद्यन्ते रागादय इति, तदयुक्तम्; यस्माद् भावनामयं स्फुटप्रतिभासतया निरात्मकवस्तुसाक्षात्कारिज्ञानमविकल्पकं प्रमाणप्रसिद्धार्थविषयतया चाभ्रान्तं तन्नैरात्म्यदर्शनमात्मदर्शनस्यात्यन्तोन्मूलनप्रतिपक्षो वर्णितः, न श्रुतचिन्तामयम् । यस्मादनादिकालाभ्यासादत्यन्तोपारूढमूलत्वान्मलानां क्रमेणैव विपक्षवृद्ध्याऽवहसतां क्षयः, न तु सकृच्छ्रवणेन । यथा शीतस्पर्शस्य वह्निरूपसम्पर्कमात्रान्न क्षयः। ___न चापि श्रुतचिन्तामयनैरात्म्यज्ञानसम्मुखीभावे सति रागादिसमुदयः सिद्धो येन व्यभिचार: स्यात्। तथा हि-समुत्पन्नं रागादिपर्यवस्थानमशुभादिमनस्कारबलेन विनोदयन्त्येव १. व्याधिजाधुप०- पा०, गा०। .. २. सेव्यमानाद्-पा०, गा० ।
३. न तयां:-पा०, गा०। ४. अपि च-गा।
५. ०न्मूलनेन प्रतिपक्षो-पा०, गा०।