________________
७४०
तत्त्वसंग्रहे
यत् पुनरन्यथास्वभावोऽस्य ख्याति:१, तदा तां स सामर्थ्यादागन्तुकप्रत्ययबलादेवेत्यवतिष्ठते, न स्वभावत्वेन, यथा रज्वां सर्पप्रत्ययस्य। अत एव क्लेशगणोऽत्यन्तसमुद्धतोऽपि नैरात्म्यदर्शनसामर्थ्यमस्योन्मूलयितुमसमर्थः; आगन्तुकप्रत्ययकृतत्वेनादृढत्वात्। नैरात्म्यज्ञानं तु स्वभावत्वात् प्रमाणसहायत्वाच्च बलवदिति तुल्येऽपि विरोधित्वे आत्मदर्शने प्रतिपक्षो व्यवस्थाप्यते। न चात्मदर्शनं तस्य; तद्विपरीतत्वात्।
यस्यापि न बाह्योऽर्थोस्तीति पक्षः, तस्यापि मते नैरात्म्यग्रहणस्वभावमेव ज्ञानम्, नात्मदर्शनात्मकम्; तस्यात्मनोऽसत्त्वात् । तथा हि-यदि नाम तेन विषयस्याभावात् तदग्रहणात्मकं ज्ञानं नेष्टम्, स्वसंवेदनात्मकं तु तदवश्यमङ्गीकर्त्तव्यम्; अन्यथा ज्ञानस्यापि व्यवस्था न स्यात् । स चात्मा विद्यमानेनैवानात्माद्वयादिरूपेण संवेद्यः, नान्यथा पूर्ववद्दोषप्रसङ्गात्। तस्मात् प्राणिधर्मत्वमेषामसिद्धम्।
नापि तत्रोत्पद्यत इत्येतावता स्वभावत्वे परिकल्पिते प्रहाणासम्भवः; अनेकान्तात् । तथा हि-रज्वां सर्पज्ञानमुत्पद्यते, अथ च तत्सम्यग्ज्ञानोत्पादान्निवर्त्तते। ___. नापि क्षयोपायासम्भवः; स्वहेतुविरुद्धस्वभावपदार्थाभ्यासस्य क्षयोपायत्वेन सम्भवात्। तथा हि-ये सम्भवत्स्वहेतुविरुद्धस्वभावाभ्यासाः, ते सम्भवदत्यन्तसन्तानविच्छेदाः, तद्यथा व्रीह्यादयः, तथा चामी रागादय इति सम्भवत्येवैषां क्षयोपायः।
नापि तदपरिज्ञानम्, यतो हेतुस्वरूपज्ञानादेव यत् तद्विपरीतालम्बनाकारं वस्तु स तस्य प्रतिपक्ष इति स्फुटमवसीयत एव। नैरात्म्यदर्शनं च तत्र विपरीतालम्बनाकारत्वात् प्रतिपक्ष इति प्रदर्शितमेतत्।
नापि लङ्घनादिवद् व्यवस्थितोत्कर्षता; पूर्वपूर्वाभ्यासाहितस्य स्वभावत्वेनानपायादुत्तरोत्तरप्रयत्नस्यापूर्वविशेषाधानैकनिष्ठत्वात्, स्थिराश्रयत्वात्, पूर्वसजातीयबीजप्रभवत्वाच्च प्रज्ञादेः । न त्वेवं लङ्घनादिरिति पश्चात् प्रतिपादयिष्यते।
नापि जन्मान्तरासम्भवः; पूर्वजन्मप्रसरस्य प्रसाधितत्वात्। नापि ताम्रादिकाठिन्यादिवत् पुनरुत्पत्तिसम्भवो दोषाणाम्; [G.874] तद्विरोधिनैरात्म्यदर्शनस्यात्यन्तसात्म्यमुपगतस्य सदाऽनपायात्। ताम्रादिकाठिन्यस्य हि यो विरोधी वह्निस्तस्य कदाचित्कसन्निहितत्वात् काठिन्यादेस्तदभाव एव भवतः पुनस्तदपायादुत्पत्तिर्युक्ता, न त्वेवं मलानाम् । अपायेऽपि वा मार्गस्य भस्मादिभिरनैकान्तान्नावश्यं पुनरुत्पत्तिसम्भवो दोषाणाम्; तथा हि-काष्ठादेरग्निसम्बन्धाद् भस्मसाद्भूतस्य तदपायेऽपि न प्राक्तनरूपानुवृत्तिः, तद्वद् दोषाणामपीत्यनैकान्तः । किञ्चआगन्तुकतया प्रागप्यसमर्थानां मलानां पश्चात्सात्मीभूतं तत्रैरात्म्यं बाधितुं कुतः शक्तिः ! न हि स्वभावो यत्नमन्तरेण निवर्तयितुं शक्यते । न च प्राप्यपरिहर्त्तव्ययोर्वस्तुनोर्गुणदोषदर्शनमन्तरेण प्रेक्षावतां हातुम्, उपादातुं वा प्रयत्नो युक्तः । न च विपक्षस्यात्मन: पुरुषस्य दोषेष गुणदर्शनम्, प्रतिपक्षे वा दोषदर्शनं सम्भवति; अविपर्यस्तत्वात् । न हि निर्दोष वस्त्वविपर्यस्तधियो दुष्टत्वेनोपाददते. नापि दुष्टं गुणवत्त्वेन । न च नैरात्म्यदर्शनस्य कदाचिद् दुष्टता; सर्वोपदवरहितत्वेन गुणवत्त्वात् । तथा हि-नि:शेषरागादिमलस्यापगमान भूतार्थदर्शननिबन्धोपद्रवः ' मला. महानाय-गा। २२. विपक्षसात्मत:- पा० न चाविपर्यस्ता०- गा०