________________
अतीन्द्रियार्थदर्शिपरीक्षा
७३९
संसारादुत्त्रस्तमनसस्तदुपशममात्मनः प्रार्थयन्ते, तेषां श्रावकादिबोधनियतानां संसाराद् भयमेव नैरात्म्यभावनार्थित्वनिमित्तम् । ये तु गोत्रविशेषात् प्रकृत्यैव परहितकरणैकाभिरामा: संस्कारादिदुःखतात्रितयपरिपीडितं' जगदवेक्ष्य कृपापरतन्त्रतया तदुःखदुःखिनः स्वात्मनि व्यपेक्षामपास्य सकलानेव संसारिण आत्मत्वेनाभ्युपगतास्तत्परित्राणाय प्रणिदधते, तेषां करुणैव भावनाप्रवृत्तिनिमित्तम्; परोक्षोपेयतद्धेतोस्तदाख्यानस्य दुष्करत्वात् । परहितकरणेन प्रेक्षावतः किं प्रयोजनमिति चेत् ? न; तदेव प्रयोजनमिष्टलक्षणत्वात्तस्य । न चाप्रेक्षावत्त्वप्रसङ्गः; परिकल्पितात्मग्रहनिबन्धनत्वादात्महितकरणाभिनिवेशस्य सकलसाधुजनसम्मतत्वात्, स्वफलानुबन्धित्वाच्च परहितकारणस्य ।
अपि च--'
--भावनाप्रवृत्तावर्थित्वासम्भवोऽत्र प्रतिपादयितुमारब्धः, तद्यदि नामाप्रेक्षावत्त्वं तस्य भवेत् किमियता प्रवृत्तावनर्थित्वं तस्य स्यात् ! तस्मादिदमेव वक्तव्यम् – परहितकरणाय नैव कश्चित् प्रवर्त्तते प्रयोजनाभावादिति । तत्र चोक्तम् ।
अपि च-यथा केचिदुपलभ्यन्तेऽतितरामभ्यस्तनैर्घृण्या अकारणमेव परव्यसनाभिरामाः परदुःखसुखिनः, तथा केचिदभ्यस्तकारुण्याः परसुखाभिरामाः परदु:खदुःखिनः प्रयोजनान्तरमन्तरेणापि भवन्तीति किं न सम्भाव्यम् ।
नापि दोषस्वरूपापरिज्ञानम्, यतोऽभिष्वङ्गपरिघातात्मात्मीयोन्नत्याद्याकरेण रागद्वेषमोहमानमदेर्ष्यामात्सर्यादयः क्लेशोपक्लेशगणा विदितस्वरूपा एवोदयन्ते व्ययन्ते च ।
नापि च ते नित्याः, कादाचित्कतया संवेद्यमानत्वात् । अत एव नाहेतुकत्वमेषाम्, अहेतोरनपेक्षितत्वेन देशकालस्वभावनियमायोगात् । अतोऽपि नित्यहेतुत्वमेषां प्रतिक्षिप्तम्, तत्कारणस्यात्मादेः सदा सन्निहितत्वादनाधेयातिशयस्य परैः सहकारिनिरपेक्षत्वात् । तन्मात्रभाविनां सर्वदा युगपच्चोत्पत्तिप्रसङ्गात्' । अतः सामर्थ्यादनित्यहेतव एवैते ।
अनित्योऽपि हेतुरेषां विदितस्वरूप एव; आत्मात्मीयविपर्यासहेतुकत्वाद् रागादेर्दोषगणस्य तदन्वयव्यतिरेकानुविधानादिति पूर्वं प्रतिपादितत्वात् ।
नापि प्राणिधर्मत्वमेषाम्; तस्यैव धर्मिणोऽसिद्धेः । न हि प्राणी नाम धर्मी विद्यते कश्चित्, यस्यामी रागादयो धर्मा भवेयुः । केवलमिदम्प्रत्ययतामात्रमिदम्, विकल्पसमारोपितत्वाद् धर्मधर्मिव्यवहारस्य । अथ चित्तस्वभावत्वेन तत्रोत्पत्त्या वा प्राणिधर्मत्वमेषाम्, तथाप्यसिद्धिरनैकान्तिकश्च । तथाहि - विषयविषयिभावमिच्छता चित्तं विषयग्रहणस्वभावमभ्युपेयम्, अन्यथा विषयज्ञानयोर्न विषयविषयिभाव: । [G.873] अर्थग्रहस्वभावत्वेनाङ्गीक्रियमाणे यस्तस्य स्वभावस्तेनैवात्मनोंऽशोऽर्थस्तेन गृह्यते इति वक्तव्यम्, अन्यथा कथमसौ गृहीतः स्यात् ! यद्यसताऽऽकारेण गृह्येत, ततश्च विषयविषयिभावो न स्यात् । तथा हि-यथा ज्ञानं विषयीकरोत्यर्थं न तथा सोऽर्थः, यथा सोऽर्थो न तथा तं विषयीकरोतीति निर्विषयाण्येव ज्ञानानि स्युः । ततश्च सर्वपदार्थासिद्धिप्रसङ्गः । तस्माद् भूतविषयाकारग्राहिताऽस्य स्वभावो निज इति स्थितम् । भूतश्च स्वभावो विषयस्य क्षणिकानात्मादिरूप इति प्रतिपादितमेतत् । तेन नैरात्म्यग्रहणस्वभावमेव चित्तम्, नात्मग्रहणस्वभावम् ।
१. ०दुःखत्रय०- पा०, गा० ।
२. युगपन्नोत्पत्ति० - पा०, गा० ।
३-३. ०मेवेति तन्ना० - पा, गा० ।