________________
तत्त्वसंग्रहे
दीपप्रदीपप्रभाप्रसरसंसर्गिणि धरणितले तिमिरम् । अस्ति च दोषगणविरुद्धनैरात्म्यदर्शनसमवधानं प्रत्यक्षीकृतनैरात्म्यदर्शने पुंसीति विरुद्धोपलब्धिः ।
स्यादेतत्— - यथा नैरात्म्यदर्शनसमाक्रान्ते चेतसि विरुद्धतयाऽऽत्मदर्शनस्योत्पत्तुमनवकाशः तथा [G.871] नैरात्म्यदर्शनस्याप्यात्मदर्शनसमाक्रान्ते मनसि, विरोधस्य तुल्यत्वात्, ततश्च कस्यचिन्नैरात्म्यदर्शनास्यासम्भवादसिद्धो हेतुः । सम्भवतु वा' नैरात्म्यदर्शनम्, तथाप्यनयोविरोधे सत्यपि नात्यन्तं बाध्यबाधकभावः सिध्यति ; यथा रागद्वेषयोः, सुखदुःखयोर्वा; यतोऽत्यन्तप्रहाणमिह साधयितुमिष्टम्, न तु तावत्कालासमुदाचारमात्रमिति । अतोऽनैकान्तिकता • हेतोः । दृश्यन्ते च प्रतिदिनमनुमानबलावधारितसमस्तवस्तुगतनैरात्म्यतत्त्वानामपि सतामखण्डितमहिमानो रागादयः समुदयमासादयन्त इत्यतोऽपि हेतोर्नैकान्तिकतेति ? नैतदस्ति; यदि नैरात्म्यविकल्पस्योत्पादोऽप्रहीणक्लेशस्य सन्ताने न सम्भवेत्, तदा न सम्भवेन्नैरात्म्यदर्शनोदयावकाशः, यावताऽनुभवसिद्धस्तावन्नैरात्म्यविकल्पसम्मुखीभावः सर्वेषामेव। स एव च भावनया कामिनीविकल्पवत् प्रकर्षगमनसम्भवादन्ते स्फुटप्रतिभासतया, प्रमाणप्रतीताग्राहितया च प्रत्यक्षतामापद्यत इति कथं नैरात्म्यदर्शनोदयासम्भवः ।
७३८
अपि च-यथाऽन्धकारपरिगते देशे कालान्तरेण प्रकाशोदयावकाशसम्भवस्तथेहापि किं न सम्भाव्यते । न चाप्येवं शक्यं वक्तुम् सैव तादृशी भावना न कस्यचित् सम्भवति, या तथाभूतप्रत्यक्षज्ञानफला भवेदिति; यतोऽसम्भवे कारणं वचनीयम् । तथा हि- भावनायामप्रयोगे सर्वेषामेवानर्थित्वं वा कारणं भवेत्, प्रेक्षावतः प्रवृत्तेरर्थितया व्याप्तत्वात् ? सत्यप्यर्थित्वे प्रहेयस्वरूपापरिज्ञानाद्वा न प्रवर्त्तते प्रेक्षावान्, अनिर्ज्ञातस्वरूपस्य दोषस्य हातुमशक्यत्वात् ? सत्यपि तत्स्वरूपज्ञाने नित्यत्वं वा दोषाणां पश्यँस्तत्प्रहाणाय न यत्नमारभते, नित्यस्य प्रहाणासम्भवात् ? असत्यपि वा नित्यत्वे' निर्हेतुकत्वमेषामवगम्य' निवर्त्तते, स्वतन्त्रास्यासम्भवदुच्छेदत्वात् ? सत्यपि वा कारणवत्त्वे तत्कारणस्वरूपांनिश्चयादपि नाद्रियते भावनायाम्, अविज्ञातनिदानस्य' व्याधिरिव प्रहातुमशक्यत्वात् ? भवतु वा तत्कारणपरिज्ञानम्, किं तत्कारणं नित्यमवगम्य नोत्सहते तत्प्रहाणाय प्रेक्षापूर्वकारी, अविकलकारणस्य प्रतिबद्धुमशक्तेः ? अनित्यत्वेऽपि वा तत्कारणस्य दोषाणां प्राणिधर्मतामवेत्य न प्रयतते, स्वभावस्य हातुमशक्यत्वत् ? अस्वभावत्वे वा दोषाणां क्षयोपायासम्भवान् निवर्त्तते, नह्यपायविकलस्योपेयसम्प्राप्तिरस्ति ? सत्त्वेऽपि चोपायस्य तदपरिज्ञानदसम्भवत्तदनुष्ठानो भवेत्, अपरिज्ञातस्वरूपस्यानुष्ठानासम्भवात् ? परिज्ञानेऽपि वा लङ्घनादिव व्यवस्थितोत्कर्षतया जन्मान्तरासम्भवेन वा भावनाया अत्यन्तप्रकर्षमसम्भावयन्नाभियोगवान् भवति ? भवतु वाऽत्यन्तप्रकर्षगमनमसम्भवात् प्रतिपक्षोदयेन दोषाणां क्षय:, तथापि ताम्रादिकाठिन्यवत् पुनरपि दोषोदयं [G.872] सम्भावयन्नाभियोगमारभत इति ?
तत्र न तावदनर्थित्वं सिद्धम् । तथा हि-ये तावज्जात्यादिदुःखोत्पीडितमानसाः
१. वा न वा पा०, गा० ।
३. ० प्रहाणक्लेशस्य- पा०, गा० ।
५. अपिज्ञात० - पा० ।
२-२. पा०, गा० पुस्तकयोस्तु 'दृश्यतेऽपि '- इत्येव पाठः।
४ - ४. नित्यत्वनिर्हेतु० - पा०, गा० ।
६. दोषादयं - पा०, गा० ।