________________
अतीन्द्रियार्थदर्शिपरीक्षा
७३७ तदविपरीतमविकलमुपदेष्टुं शक्यते । यथोक्तम्-"परोक्षोपेयतद्धेतोस्तादाख्यानं हि दुष्करम् " ( ) इति ॥ ३३३६ ॥
• स्यादेतद्-यदि नामानात्मादिरूपतो जगद्विदितमस्य, तथा पि कथमसौ सर्वज्ञः सिध्यति ? इत्याह.. प्रत्यक्षीकृतनैरात्म्ये न दोषो लभते स्थितिम्।
तद्विरुद्धतया दीप्रे प्रदीपे तिमिरं यथा॥३३३७॥ क्लेशज्ञेयावरणप्रहाणतो हि सर्वज्ञत्वम्, तत्र क्लेशा एव रागादयो [G.870] भूतदर्शनप्रतिबन्धाभावात् क्लेशावरणमुच्यते, दृष्टस्यापि हेयोपादेयतत्त्वस्य यत् सर्वाकारापरिज्ञानं प्रतिपादनासामर्थ्यं च तज्ज्ञेयावरणम् । तत्र क्लेशावरणस्य नैरात्म्यप्रत्यक्षीकरणात् प्रहाणिः । ज्ञेयावरणस्य तु तस्यैव नैरात्म्यदर्शनस्य सादरनिरन्तरदीर्घकालाभ्यासात्। तथा हि-अमी रागादयः क्लेशा वितथात्मदर्शनमूलका अन्वयव्यतिरेकाभ्यां निश्चिताः, न बाह्यार्थबलभाविनः; यतः सत्यपि बाह्यार्थे नायोनिशोमनस्कारमन्तरेणोत्पद्यन्ते । विनापि चार्थेनायोनिशोविकल्पसम्मुखीभावे सत्युत्पद्यन्ते । न च यत्' सदसत्तानुविधायि न भवति तत्तत्कारणं युक्तम्; अतिप्रसङ्गात्। नाप्येते परपरिकल्पितात्मसमवायिनः, तस्यात्मनो निरस्तत्वात्। सत्यपि वा तस्मिन्नित्यं रागादीनामुत्पत्त्यनपायप्रसङ्गात्। उत्पत्तिस्थितिकारणस्याविकलस्यात्मनः सर्वदा सन्निहितत्वात् । परैरनाधेयातिशयस्य तदपेक्षानुपपत्तेश्चेति बहुधा चर्चितमेतत्।।
- सदसतोश्चाश्रयणनिषेधादयुक्तमेषां क्वचित् समवायित्वमित्यतो न नित्यहेतुप्रतिबद्धात्मस्थितयः। नापि बाह्यार्थबलभाविनः, किन्त्वभूतात्मदर्शनबलसमुद्भाविनः। तथा हिअहमित्यपश्यतो नात्मस्नेहो जायते, नापि ममेत्यगृह्णत आत्मसुखोत्पादानुकूलत्वेनागृहीते वस्तुन्यात्मीयत्वेनमभिष्वङ्गः समुद्भवति । द्वेषोऽपि न हि क्वचिदसक्तस्यात्मात्मीयप्रतिकूलत्वेनागृहीते वस्तुनि प्रादुर्भावमासादयति; आत्मीयानुपरोधिनि तदुपरोधप्रतिघातिनि च तस्यासम्भवात् । एवं मानादयोऽपि वाच्याः । तस्मादनादिकालिकं पूर्वपूर्वसजातीयाभ्यासजनितमात्मदर्शनमात्मीयग्रहं प्रसूते, तौ चात्मात्मीयस्नेहम्, सोऽपि द्वेषादिकम्-इत्यन्वयव्यतिरेकाभ्यामात्मग्रहादात्मात्मीयग्रहमूलत्वमेषां स्फुटतरमागोपालाङ्गनमवसितमेव।
आत्मदर्शनविरुद्धं च नैरात्म्यदर्शनम्, तद्विपरीताकारलम्बनत्वात्। अनयोर्हि युगपदेकस्मिन् सन्ताने रज्जौ सर्पतज्ज्ञानयोरिव सहावस्थानमैक्यं च विरुद्धम्। अतो नैरात्म्यदर्शनस्यात्मदर्शनविरोधात् तन्मूलैरपि रागादिभिः सह विरोधो भवति; दहनविशेषे° शीतकृतरोमहर्षादिविशेषस्य । तेन सर्वदोषविरोधिनैरात्म्यदर्शने प्रत्यक्षीकृते सति न तद्विरुद्धो रागादिदोषगणोऽवस्थानं लभते तिमिरवदालोकपरिगते देश इति । अतो नैरात्म्यदर्शनात् क्लेशावरणप्रहाणं भवति। प्रयोगः-यत्र यद्विरुद्धवस्तुसमवधानम्, न तत्र तदपरमवस्थितिमासादयति, यथा १. बन्धभावात्-पा०। २. ज्ञेयावरणम्- पा०; गा०। ३. नायौनिसोयमच्छकार-पा०. गा० । ४. समुत्पद्यन्ते-पा०, गा०। । ५. सत्-पा०।
६. नामादयोऽपि-गा। ७. दनादिकालीनं- गा०। ८.चात्मीयस्नेहम्- गा०। ९-९. रज्जुसपः- पा• गा । १०. दहनविशेषेव-पा०, दहनविशेषेणेव-गा।