________________
७३६
तत्त्वसंग्रहे सन्तु तेऽपि समस्तानामैकमत्येन संस्थितेः ।
परस्परविरुद्धार्थं नीतार्थं न हि ते जगुः ॥३३३२॥ यदि सात्मादीनि ब्रूयात्, तदा मतभेद एवोक्तः स्यादिति नासिद्धता भवेत्।
यद्येवमित्यादिनोत्तरमाह। न ह्यस्माभिः शृङ्गग्राहिकयाऽयमसौ सर्वज्ञ इत्येवं साधयितुमिष्टः, किन्तु सामान्येन। यदि कपिलादीनामेवंविधतत्त्वपरिज्ञानमभ्युपगम्यते, न तर्हि भवता वक्तव्यम्-'मतभेदः कथं तयोः' इति; सर्वेषामैकमत्येन स्थितत्वात्। यस्तु परस्परविरुद्धार्थोपदेशस्तेषां स नेयार्थतया व्यवतिष्ठते । न बैकमत्येन स्थिताः परस्परविरुद्धं नीतार्थम् तात्त्विकं रूपं गदन्तीति युक्तम् । तस्मान्मतभेदमिच्छता नाभिप्रायिकं वचो वाच्यम्, एषां मतभेदाभ्युपगमे च न वक्तव्यम्-'को नामैको निरूप्यताम्' (तत्त्व०.३१४७) इति;यत: सुगत एव यथोक्तज्ञानयोगितया सर्वज्ञत्वेनावधार्यते, नान्य इति निरूपितमेतत् ॥ ३३३१३३३२॥ किञ्च-कपिलादीनां यथोक्तज्ञानाभ्युपगमे सुगतत्वमेवापद्यत इत्येतद् दर्शयन्नाह
प्रतिपादितरूपस्य सर्ववस्तुगतस्य । च।
साक्षात् तत्त्वस्य विज्ञानात्. सुगताः सर्वदर्शिनः ॥३३३३॥ [G.869] प्रतिपादितम्=प्रसाधितं प्रमाणतो रूपम् स्वभावो यस्यानात्मादिलक्षणस्य तत्त्वस्य तथोक्तम् ॥ ३३३३ ।।
तेषां चैवंविधे ज्ञाने सुगतत्वं न भिद्यते।
प्रशस्तज्ञानयोगित्वादेतावत् तस्य लक्षणम्॥३३३४॥ तेषामिति वर्धमानादीनाम्। एतावदिति प्रशस्तज्ञानयोगित्वम्। तस्येति सुगतत्वस्य। यतो नैरात्म्यज्ञानात् प्रशस्तं समस्तज्ञेयाद्यावरणग्रहणं गत इति सुगत उच्यते ! ॥ ३३३३
३३३४॥
__ किञ्च–सामान्येनापि सर्वज्ञसम्भवे साध्यमाने भगवत्येवातिष्ठते, सामर्थ्यादिति दर्शयति
तत्सम्भव्यपि सर्वज्ञः सामान्येन प्रसाधितः।
तल्लक्षणाविनाभावात् सुगतो व्यवतिष्ठते ॥३३३५॥ तदिति तस्मात् । लक्षणविनाभावदिति । सर्वज्ञलक्षणाविनाभावात् ।। ३३३५ ॥ ननु विशेषनिर्देशमन्तरेण कथमसौ लभ्यते? इत्याह
अनिर्दिष्टविशेषोऽपि सर्वज्ञः कोऽपि सम्भवेत्।
यो यथावत् जगत् सर्वं वेत्त्यनात्मादिरूपतः ॥३३३६॥ यो हि सर्वं जगदनात्मादिरूपेण यथावदवगच्छति स सर्वज्ञः-इत्येवं सामान्येन कृतेऽपि सर्वज्ञलक्षणे यत्र तदुपलभ्यते स सामर्थ्याद् विशेषोऽवगम्यत एवेति विशेषोपादानमनर्थकम्। एतच्च सर्वज्ञलक्षणं भगवत्येवोपलभ्यते, नान्यत्र विचित्रैरुपायैरविकलचतुःसत्यलक्षणसाभ्युपायहेयोपादेयतत्त्वप्रकाशनादिति भावः । न ह्यविदितं वस्तु तथाभावैस्तथावत् १. माभिप्रायिक-गा।