________________
७३५
अतीन्द्रियार्थदर्शिपरीक्षा मिथ्याज्ञानानुषङ्गित्वाद् विपरीतप्रकाशनात्॥३३२७॥ स्थाणौ नर इति भ्रान्तः प्रतिपत्ता' यथा परः। सर्वाभिश्च परीक्षाभिर्विज्ञेया हेतुसिद्धता ॥३३२८॥ सम्यक् सर्वपदार्थानां तत्त्वज्ञानाच्च सर्ववित्।
हेतावतो न संवेद्या सन्दिग्धव्यतिरेकिता॥३३२९॥ यथोक्तं तत्त्वज्ञानं यदि वर्धमानकपिलादीनां सम्भवेत्, तदा तेषामपि सर्वज्ञत्वं भवतु, यावता सर्व एवामी सर्वदोषप्रसवहेतुवितथात्मग्रहग्राहगृहीताः प्रत्यक्षादिप्रमाणबाधिताक्षणिकादिपदार्थानामुपदेष्टारः, तत्कथमाकुमारमतिप्रतीतिपथमुपगतेष्वपि पदार्थेषु प्रस्खलतामेषामतीन्द्रियार्थदर्शनं सम्भावनापथमवतरिष्यति, येनोच्यते-"कपिलो नेति प्रमा" (तत्त्व० ३१४८) इति! तथा हि-इयमत्राप्रमा' स्फुटतरमभिधातुं शक्यते-ये मिथ्याज्ञानानुषङ्गिणस्ते सर्वविदो न भवन्ति, यथा स्थाणौ नर इति। समुपजातविभ्रमः पुमान्, मिथ्याज्ञानानुषङ्गिणश्च वर्धमानादय इति विरुद्धव्याप्तोपलब्धिः; सर्वज्ञविरुद्धेनासर्वज्ञत्वेन मिथ्याज्ञानानुषङ्गित्वस्य व्याप्तत्वात् । न चासिद्धो हेतुः यतो विपरीतार्थप्रकाशनात् सिद्धमेषां मिथ्याज्ञानानुषङ्गित्वम्। तदपि विपरीतार्थप्रकाशनमेषां सर्वाभिः परीक्षाभिः प्रतिपादितम्। न चापि सन्दिग्धविपक्षव्यावृत्तितयाऽनैकान्तिकंता हेतोः; यत: सम्यगशेषपदार्थपरिज्ञातृत्वेन सर्वज्ञत्वमिष्यते। न च यत्र सम्यग् ज्ञानं तत्र तद्विरुद्धस्य मिथ्याज्ञानस्य सम्भवः ॥ ३३२४३३२९ ॥
स्यादेतत्-यदि नाम विपरीतार्थप्रकाशनमेषाम्, तथापि मिथ्याज्ञानानुषङ्गित्वमतोऽवसातुं (G.868] न शक्यते; यतोऽन्यथापि व्यवहाराः शक्यन्ते कर्तुम्, विचित्राभिसन्धित्वात् पुरुषाणाम्, तेन हेतोः सन्दिग्धासिद्धता? इत्येतदाशङ्कयाह
आभिप्रायिकमेतेषां स्याद्वादादिवचो यदि।
तात्त्विकं सर्ववस्तूनां किमेभी रूपमिष्यते॥३३३०॥ . यदि ह्यन्याभिप्रायेण तैरेतत्स्याद्वादादिप्रमाणविरुद्धमप्युक्तमित्यभिधीयते? अभिधीयताम्, न ह्यस्माभिः स्वातन्त्र्येण वर्धमानादीनामसर्वज्ञत्वं साधयितुमिष्टम्, किन्तु भवता परस्परविरुद्धमतावस्थितेन कपिलादिषु 'यदि सुगतः सर्वज्ञः, तदा कपिलो नेति का प्रमा' इत्युक्तम्, अंबास्माभिः प्रमाणं भवन्मत्या तेषां मतभेदमङ्गीकृत्याभिधीयते, तेन नासिद्धता हेतोः । तथा हि-यद्येषामाभिप्रायिकं वचो वर्ण्यते, तदा किमेषां पारमार्थिकं वस्तुरूपमिष्टमिति वक्तव्यम् ॥ ३३३०॥ एवं० पृष्टं: सन् पर आह
अनात्मक्षणिकत्वादि? यद्येवं सर्वदर्शिनः । साक्षात् समस्तवस्तूनां तत्त्वरूपस्य दर्शनात्॥३३३१॥
१. प्रतिपत्त्या-पा०,गा०। ४. सम्बोध्या-पा०,गा०। ७-७. पा०,गा० पुस्तकयो स्ति। १०. परं-पा० .
२. ०सिद्धिता-पा०,गा। ५. ०मत्र प्रमा-पा०,गा० । ८. विचित्रातिसन्धित्वात्-पा०।
३. यथा-पा०,गा०। ६. सर्वज्ञत्व०-गा०। ९: ०विरुद्धमित्युक्त०-पा० ।