________________
७३४
तत्त्वसंग्रहे
या याद।
"स्वग्रन्थेष्वनिबद्धोऽपि" (तत्त्व० ३१४६) इत्यादावाह
अद्वितीयं शिवद्वारं कुदृष्टीनां भयङ्करम्।
विनेयेभ्यो हितायोक्तं नैरात्म्यं तेन तु स्फुटम्॥३३२१॥ अन्यतीथ्रनधिगतत्वादद्वितीयम्; तेषां सर्वेषामेव वितथात्मदृष्ट्यभिनिविष्टत्वात्। एतच्च सर्वं नैरात्म्यविशेषणम्। शिवद्वारमिति। निर्वाणप्रवेशोपायभूतत्वात्। शिवमिति निर्वाणमुच्यते। कुदृष्टीनामिति। कुत्सिता आत्मादिदृष्टयो येषां ते तथोक्ताः। वितथदृष्ट्यभिनिविष्टबालजनोत्त्रासकरमित्यर्थ:२ । यथोक्तम्
"नास्त्यहं न भविष्यामि न मेऽस्ति न भविष्यति। .
इति बालस्य सन्त्रासः पण्डितस्य भयक्षयः॥" ( ) इति। एतेन विपरीताभिनिवेशावस्थितैस्तदधिमोक्तुमपि न शक्यते, किमुताधिगन्तुमिति दर्शितं भवति ॥ ३३२१ ॥ . न चापि पृथग्जनभूमिस्थतेन केनचित् कदाचिदपि परिज्ञातपूर्वं तदिति दर्शयति
संसार्यनुचितं ज्ञातं सर्वानर्थनिवर्तकम्। तदभ्यासादियुक्तानां गुणरत्नाकरं परम्॥३३२२ ॥ ईदृक् च परमं तत्त्वं जानन्ति कवयो यदि।
प्रधानपुरुषार्थज्ञान् सर्वज्ञान् को,न मन्यते॥३३२३॥ संसारिभिः पृथग्जनैरनुचितमनभ्यस्तमित्यर्थः । कथं हिताय तत्प्रभवति येन तदर्थं देशितम् ? इत्याह-ज्ञातमित्यादि। ज्ञातं साक्षात् कृतं सत्क्लेशजन्मादिलक्षणस्याशेषानर्थराशेनिवर्तकं भवति । उत्तरकालमपि तदभ्यस्यमानं 'द्रव्यादिवैशेषिकगुणाभिनिवर्त्तकमित्येव परमं पुरुषार्थोपयोगितत्त्वं यदि कवयोऽधिगच्छन्ति; तेऽपि सन्तु सर्वज्ञाः। न ह्यस्माभिरेकपुरुषावधिकमेव सर्वज्ञत्वमभ्युपेयते, किं तर्हि ? य एवं यथोदिततत्त्ववेदी स एव सर्वविदिष्यते, नान्यः । न चैवं कवीनामस्ति, तेनातिप्रसङ्गो न भवति ॥ ३३२२-३३२३ ॥ [G.867] एतेन यदुक्तम्-"स सर्वज्ञेषु च भूयस्सु" (तत्त्व० ३१४७) इत्यादि तदपि प्रत्युक्तमिति दर्शयन्नाह
इदं च वर्धमानादेनॆरात्म्यज्ञानमीदृशम्। न समस्त्यात्मदृष्टौ हि निविष्टाः सर्वतीर्थकाः॥३३२४॥ स्याद्वादाक्षणिकत्वादि प्रत्यक्षादिप्रबाधितम् । बवायुक्तमुक्तं यैः स्युः सर्वज्ञाः कथं नु ते॥३३२५॥ वाहीकादिप्रसिद्धेऽस्मिन् प्रत्यक्षेऽर्थे स्खलन्ति ये। कथं सम्भाव्यते तेषामत्यक्षाधिगमः स्फुटः॥३३२६॥
असर्वज्ञत्वमेवं तु विस्पष्टमवगम्यते । १. विनयेभ्यो-पा०।
२. ०जनत्रासकर०-जै०। ३. ०दधिगमो वक्तुमपि-गा० । ४. ज्ञानं-जै०।
५. रथ्यादि०-पा०, गा०। ६. विनष्टा:-पा०, गा०। ७. ०क्षणिकस्यादि-पा०। ८. ०प्रबोधितम्-पा०।
९.अस्पष्ट०-पा०,प्रस्पष्ट०-गा।