________________
अतीन्द्रियार्थदर्शिपरीक्षा
७३३ यदि नाम साक्षान्मधरसादिसंवेदनमभूत् तस्य, तथापि न धर्मज्ञत्वहानिर्भवेत्। निन्द्यत्वमापद्यत इति चेत् ? यो रसनादीन्द्रियसंसर्गेण तान् रसनादीन् संवेदयते स लोकसंवृत्त्या निन्द्यो भवेत्, न तु भगवाँस्तथा संवेदयते, किं तर्हि ? मनसा, तच्चाप्राप्तविषयमिति न लोके तत्कृतं निन्द्यत्वं प्रतीतम्। न हि निन्द्यत्वं परमार्थतः कस्यचिदस्ति; [G.865) अनवस्थितत्वात् तस्य।तथा हि-श्रोत्रियस्य यन्निन्द्यं न तज्जोद्विङ्गस्य,किन्तु संवृत्या लोके मद्यादयो गर्हितास्तान् संवेदयतस्तथापि भगवतो न निन्दयत्वम्; मद्यस्य मनसैव वेदनात्। स्यादेतत्-यथा रसनेन्द्रियसम्बन्धादन्येषां मद्यादिसंवित्तो दुःखाद्यनुभवः, तथा मनसा संवेदयतः प्राप्नोतीति? तदस्ति; रसनादीन्द्रियसम्बन्धेनाभूयमाना रसादय इन्द्रियस्यानुग्रहोपघातं कुर्वन्तो दुःखादिहेतवो भवन्ति। ते चाकुशलादिकर्मानुरूपेण विपर्यस्तचेतसां केषाञ्चिदेव तथा दुःखादिहेतुत्वेन प्रख्यायन्ते, न सर्वेषाम् । यथा हि प्रेतानां पूयादिरूपेण सलिलादि। न चैवं भगवतः सर्वमस्ति। तथा हि-मनसैव संवेदनान्नेन्द्रियोपघातादिसम्भवः, अनाश्रवपञ्चव्यवहारात्मकत्वाद् भगवतो नापि साश्रवकर्माधिपत्यसम्भवः, अविपरीतानित्यादिरूपेण संवेदनान्नापि विपर्यस्तत्वम् । अत एव भगवतो मानसस्यापि दौर्मनस्यादिलक्षणस्य दुःखादेरसम्भवः; तस्य मोहजत्वात्। एतच्च सर्वं बाह्यार्थसम्भवे सति चोद्यमवतरति। विज्ञानवादनयेतु दूरीकृतावकाशमेतत् । तथा हिपरमार्थतो रूपस्कन्धासम्भवान्न सन्त्येवाशुच्यादयस्तेषाम्, मा भूत् तत्परिकल्प्या वासना; बोधमात्रसमुत्थितत्वात्। अतो न सात्मीकृतपरमार्थदर्शनानां दूरीभूताशेषाशुच्यादिप्रतिभासानां दर्शने प्रतिभासन्ते, यथा तिमिरादिदोषापगमेऽनुपहतचक्षुषां दर्शने, न केशादयः । यथोक्तम्
"नन्वज्ञानेन भासन्ते तस्याशुचिरसादयः। . असंवेदास्ततः सिद्धा द्वितीयशशिबिम्बवत् ॥" ( ) इति।
- यस्य तु विप्रस्य व्यापितया सकलाशुचिदेशसम्बद्धा वेदध्वनयो वदनोदरातिवर्तिनः सदैव, स कथमिह लोके न निन्द्यो भवेत् !॥ ३३१७-३३१८॥ "न च वेदोपवेदाङ्ग०" (तत्त्व० ३१४५) इत्यादावाह
यत एव न वेदादिप्रोक्तार्थप्रतिपादकम्। तायिनो दृश्यते वाक्यं तत एव स सर्ववित्॥३३१९॥ सम्भाव्यते समस्तासत्तीर्थ्याऽसाधारणस्थितिः।
प्रमादाधीतमात्मादि वेदोऽलीकं ब्रवीति हि॥ ३३२०॥ - यद्यथैवावस्थितं वस्तु सदादिरूपेण, तस्य तथैव ज्ञानात् सर्वविद्भवति। न च यथा वेदे निर्दिष्टा आत्मादयोऽर्थाः, ते तथैव सन्ति; प्रमाणेन बाध्यमानत्वात्, तत्कथं तथैव तानुपदिशैंस्तत्त्वदर्शी भवेत्। नचैतच्छक्यं वक्तुम्-मिथ्यात्वेनापि ते नैव ज्ञाता इति; [G.866] यतो ज्ञाता एव। तथा हि-वेदादिविहिताः सर्व एव प्राणिवधादयोऽकुशलाः कर्मपथ्या दुर्गतिहेतुत्वेन निर्दिष्टाः, तथा—'नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः' ( ) इत्यादिनाऽऽत्मादयोऽप्यसत्त्वेनोक्ताः, इत्यसिद्धं वेदादिविहितपदार्थापरिज्ञानं भगवतः ॥ ३३१९-३३२०॥ १. तजङ्गितस्य-गा।
२. चेदं-गा। ३. न ते-गा। ४. तत्त्वज्ञानेन-जै०। ५-५. प्रमादाधितमात्मादि०-०: ०वेदेऽलीकं-पा०, गा०। ६. यथा-पा०, गा०।