________________
७३२
तत्त्वसंग्रहे तीयकमर्थ शक्नोत्यवगमयितुं नान्यत्किञ्चनेन्द्रियम्' (मी० द०, शा० भा० १.१.२) इति, एतदपि केवलं प्रतिज्ञामात्रमप्रमाणकमेवोद्धोष्यते भक्तिवादेनेति दर्शयति
भूतादिबोधने शक्ता चोदनैवापरं न तु।
इत्ययं नियमो युक्तो ह्यन्यासत्त्वे विनिश्चिते॥३३११॥ अपरमिति. सर्वज्ञप्रत्यक्षादि। अन्यासत्त्व इति अन्यस्य सर्वज्ञस्यासत्त्वे विनिश्चिते सत्येवं वक्तुम्, नान्यथा; अवधारणस्य नैष्फल्यात् ॥ ३३११ ॥ "तत्र सर्वं जगत्सूक्ष्म०" (तत्त्व० ३१४०) इत्यादावाह
प्रधानपुरुषार्थज्ञसर्वार्थज्ञप्रसिद्धये .. ... तच्च मानं पुरः प्रोक्तं पश्चादन्यच्च वक्ष्यते॥३३१२॥ अतः सर्वजगत्सूक्ष्मभेदज्ञार्थप्रसाधने। .
नास्थाने क्लिश्यते लोकः संरम्भाद् ग्रन्थवादयोः॥३३१३॥ [G.864] न ह्यस्माभिः सर्वज्ञविषयां चिन्तां मुक्त्वा सर्वज्ञसाधने प्रयत्नः क्रियते, किं तर्हि ? प्रधानभूतधर्मज्ञसाधन एव। तथा च पूर्वम्-'तेनार्थापत्तिलभ्येन धर्मज्ञोपगमेन तु' (तत्त्व० ३२६६) इत्यादिना धर्मज्ञसाधनेऽर्थापत्त्यावश्यं भवन्मतेनैव प्रमाणमुक्तम्, पश्चाच्चानुमानाख्यं प्रमाणमभिधास्यते, तेन नास्थाने लोक: क्लिश्यते, किं तर्हि ? स्थान एव ॥ ३३१२-३३१३॥ "सर्वप्रमातृसम्बद्ध०" (तत्त्व० ३१४१) इत्यादावाह
सर्वप्रमातृसम्बद्धप्रत्यक्षाद्यनिवारणात् ।
केवलागमगम्यत्वं नाऽऽप्यते पुण्यपापयोः ॥ ३३१४॥ धर्मादिविषयस्य सर्वप्रमातृसम्बद्धस्य प्रत्यक्षादेरदर्शनमात्रेण निवारयितुमशक्यत्वान्न धर्माधर्मयोरागममात्रगम्यत्वं लभ्यते ॥ ३३१४॥. यच्चोक्तम्- "एतावता च मीमांसापक्षे सिद्धेऽपि" (तत्त्व०३३४२)इत्यादि, तत्राह
एतावता च मीमांसापक्षेऽसिद्धेऽपि यः पुनः ।
सर्वज्ञवारणे यत्नः सोऽतिमौात् परैः कृतः॥३३१५॥ असिद्धेऽपीति धर्मज्ञस्य सिद्धत्वात्। परैरिति मीमांसकैः॥ ३३१५ ॥ "ये तु विच्छिन्नमूलत्वात्" (तत्त्व० ३१४३) इत्यादावाह
ये त्वविच्छन्नमूलत्वाद् धर्मज्ञत्वेऽहते सति।
सर्वज्ञान् पुरुषानाहुर्धीमत्ता तैः प्रकाशिता॥३३१६॥ अहत इत्यकारप्रशंषो द्रष्टव्यः । तैरिति बौद्धैः ॥ ३३१६ ॥ "साक्षात्प्रत्यक्षदर्शित्वात्" (तत्त्व० ३१४४) इत्यादावाह
रसनेन्द्रियसम्बन्धान्मधाशुचिरसादयः । वेोरन् यदि तस्यैव तदानीं निन्द्यता भवेत्॥३३१७॥ भूतार्थभावनोद्भूतमानसेनैव चेतसा।
अप्राप्ता एव वेद्यन्ते निन्दिता अपि संवृतौ ॥३३१८॥ १.सर्वप्रमाण-जै० पुस्तके पाठा०।
२. प्रत्यक्षादेर्दर्शन-पा० । ३. ० सौख्यात्-पा०।