SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७३१ अस्यानुमानस्य निवृत्तावपि सत्यामस्य वस्तुनो भावोऽपि दृष्टः, यथा- अयोगोलकवक़्यादेरिति पूर्वमुक्तम्॥३३०२-३३०५ ॥ एवं विस्तरेण सर्वज्ञाभावसिद्धये बाधकप्रमाणासम्भवं प्रतिपाद्योपसंहरति __ तस्मात् सर्वज्ञसद्भावबाधकं नास्ति किञ्चन। स्यादेतत्-यथास्माकं न किञ्चित् तद्बाधकं प्रमाणमस्ति, तथा भवतां तत्साधकमपि? इत्यत्राह प्रमाणं साधकं त्वस्य विस्तरेणाभिधास्यते ॥३३०६॥ यदुक्तम्-"समस्तावयवव्यक्तिविस्तरज्ञानसाधनम्" (तत्त्व० ३१३७) इत्यादि, अत्राह निःशेषार्थपरिज्ञानसाधने विफलेऽपि च। सधियः सौगता यत्नं कुर्वन्त्यन्येन चेतसा॥३३०७॥ अन्येन चेतसेति अन्येनाभिप्रायेण ॥ ३३०७॥ . कः पुनरसौ? इत्याह- .. स्वर्गापवर्गसम्प्राप्तिहेतुज्ञोऽस्तीति गम्यते। साक्षान्न केवलं किन्तु सर्वज्ञोऽपि प्रतीयते॥३३०८॥ [G.863] मुख्यं हि तावत् स्वर्गमोक्षसम्प्रापकहेतुज्ञत्वसाधनं भगवतोऽस्माभिः क्रियते। यत्पुनरशेषार्थपरिज्ञातृत्वसाधनमस्य, तत्प्रासङ्गिकम्; अन्यत्रापि भगवतो ज्ञानप्रवृत्तेर्बाधकप्रमाणाभावात् साक्षादशेषार्थपरिज्ञानात् सर्वज्ञो भवन् न केनचिद् बाध्यत इति, अतो न प्रेक्षावतां तत्प्रतिक्षेपो युक्तः। किन्तु ये सर्वज्ञत्वाधिगमार्थिनस्तेषां तदर्थप्रवृत्तियुक्तैवेति दर्शितं भवति ।। ३३०८ ॥ ततश्चैवं बाधकंप्रमाणाभावे सति वक्ष्यमाणे च परिस्फुटे सर्वज्ञसाधने योऽयं भवतां निश्चयैकविषयस्य सर्वज्ञस्य प्रतिक्षेपः- "सर्वे एव पुरुषा रागादिभिरविद्यया चोपद्रुता:५" इति, स केवलं मोहादेवेति दर्शयति ___ ततश्च बाधकाभावे साधने सति च स्फुटे। ___.कस्माद् विप्रतिपद्यन्ते सर्वज्ञे जडबुद्धयः॥३३०९॥ स्यादेतत्-तथाभूतपुरुषसंसाधकं प्रमाणं तथाविधं नास्तीत्येवं मन्यमानैरस्माभिः प्रतिक्षिप्यते, न तु मोहादित्याह मा भूद् वा साधनं तत्र बाधके त्वविनिश्चिते। संशयः स्यादयं त्वेषां निश्चयः किन्निबन्धनः ॥३३१०॥ एतच्चाभ्युपगम्योच्यते,साधनं तु वक्ष्यमाणमस्त्येव । अयं निश्चय इति 'नास्ति सर्वज्ञः' इति । एषां मीमांसकानाम् ।। ३३१०॥ यच्चोच्यते भवद्भिः–'चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितमित्येवञ्जा१. भवतां न— गा०। २. ०भिधीयते-जै० पुस्तके पाठा०। ३-३.अनेन चेतसेति, अनेनाभिल-पा० । ४. र्युक्ता चेति-पा०,गा०! ५-५.०रविषया नोपप्लुता-पा०,गा०। ६. एवं-पा०,गा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy