________________
७३०
तत्त्वसंग्रहे [G.861] तथा हि-सत्यपि घटादिके वस्तुनि नेत्रविकलस्य न प्रमाणं प्रवर्त्तते । तेषां च नेत्रादीनामवैकल्येऽपि विषयाख्यस्य वस्तुनोऽसन्निहितत्वेनासत्त्वेऽपि न प्रवर्त्तत इति प्रकृतेन सह सम्बन्धः । यथा घटादौ योग्यदेशासन्निहिते। केवलस्येति दृश्यताविशेषणरहितस्य। द्विधेक्षणदिति भावेऽभावे च। तदिति तस्मात्। वरमिति । कुशलमूलप्रतिसन्धानकारणात्। तथा हि-मिथ्यादृष्ट्या समुच्छिन्नकुशलमूलानां कुशलमूलप्रतिसन्धानं' कांक्षाऽस्ति, "दृष्टिभ्यां वर्ण्यते सन्धिः कांक्षाऽस्ति दृष्टिभ्याम्" इति वचनात् । अत एव तत्र तत्रा चार्याः संशयं विदधते–'भावे किं प्रमाणमिति चेदत एव संशयोऽस्तु' ( ) इति ॥ ३३००-३३०१ ॥
स्यादेतत्-यदि सर्वज्ञोऽस्ति, किमिति कदाचित् केनचिन्नोपलभ्यते; यदि नामाग्दिर्शिनां नित्यानुपलभ्योऽसाविति स्यात्, तथापि तत्कार्यं वा किं न केनचित् गृह्येत, न हि चक्षुरादीनामप्रत्यक्षत्वे तत्कार्यस्यापि ज्ञानस्याप्रत्यक्षत्वेन भवितव्यम्? इत्यत आह
स हि सन्नपि नेक्ष्येत जडैरन्यविकल्पवत्। . साक्षादयोगुडाङ्गारवह्निवन्न' च कार्यकृत्॥३३०२॥ तत्कार्यं वा यदाऽऽदृश्यमन्यकल्पजरागवत्। कार्ये दृश्येऽपि वा तेन नान्वयोऽस्य प्रतीयते॥३३०३॥ सर्वार्थज्ञो यतोऽदृश्यः सदैव जडधीदृशाम्। . नातोऽनुमानतस्तस्य सत्ता सिद्धिं प्रयास्यति॥३३०४॥
अहेत्वव्यापकं चोक्तं प्रमाणं वस्तुनोऽस्य च। 'नेक्ष्येत साक्षात्' इति सम्बन्धनीयम् । न हि यावत् किञ्चित् सकृत् सर्वमुपलभ्यम्, येनोपलम्भाभावात् सर्वज्ञाभावः स्यात्, सतोऽप्यन्यपुरुषगतस्य विकल्पस्य परैरनुपलम्भात्। नाप्यवश्यं कारणानि सदैव समारब्धकार्याणि भवन्ति, येन सर्वज्ञस्य कार्यानुपलम्भादसत्त्वं स्यात्; अनारब्धधूमकार्यस्याप्ययोगोलकवयादेर्दर्शनात्। भवतु नाम सदैव कारणानां कार्यवत्त्वम्, तथापि न तत्कार्याभावनिश्चयः, न हि [G.862] सर्वकार्यमुत्पन्नमपि दृश्यत्वेन व्याप्तम्, येन कार्यानुपलब्ध्या तदभावः सिध्येत्; उत्पन्नस्यापि कार्यस्यादर्शनात् । अन्यकल्प जरागवदिति। यथाऽन्यस्य पुरुषस्य कल्पादयोनिशोमनस्काराज्जातोऽपि रागो नोपलभ्यते, न चास्याभावः। सत्यपि वा कार्यदर्शने तत्कारणस्यातीन्द्रियत्वादगृहीततदन्वयव्यतिरेकस्य पुंसस्तदनुनुमानानुत्पत्तिसम्भवात्, तथा सत्यपि सर्वज्ञेनानुमानात् सिद्धिर्भवेदिति सम्भाव्यते। जडधीदृशामिति। धीरेव दृक् धीदृग, जडा धीदृग् येषां ते तथोक्ताः । अपि च पूर्वमुक्तम्यथा न प्रमाणं वस्तुनो हेतुः, नापि व्यापकम्, तत् कथमस्यानुमानस्याहेत्वव्यापकभूतस्य निवृत्तावपि वस्तु निवर्तेतेति भावः । अहेतुश्च तदव्यापकं चेति तथोक्तम्-न चाप्येतच्छक्यं वक्तुम्; अकारणाव्यापकभूतस्याप्यनुमानाख्यस्य प्रमाणस्य निवृत्तौ वस्तु निवर्तमानं दृष्टमेव' । न हि दृष्टेऽनुपपन्नं नामेत्याशङ्कयाह
__निवृत्तावस्य भावोऽपि दृष्टस्तेनापि संशयः ॥ ३३०५॥ १. ० प्रतिसन्धाने-गा।
.२. गुडाङ्गारावहिवन-पा०। . ३. सर्वेनानु०-पा०। ४. ०हेतुव्यापक०-पा०।
५. दृष्टमेवमिति— गा०/