________________
अतीन्द्रियार्थदर्शिपरीक्षा
७२९ लिङ्गाभावान्नानुमानमुत्पद्यते । अथ च तस्य सत्त्वमनिवृत्तमिति नासत्तानिश्चयः, तद्वत् सर्वज्ञाभावसाधने अनुमानाभावे संशयः। अत इति अनुमानाभावात् । असमारब्धं धूमादिकार्यं येन वयादिना स तथोक्तः, असमारब्धधूमादिकार्यश्चासौ वयादिश्चेति विग्रहः, तस्य सत्तायामपि सत्त्ववत् ॥ ३२९५॥
कदाचिदुपलब्धेऽर्थे सन्देहो ननु युज्यते। यथा स्थाणौ तथा होष उभयांशावलम्बकः॥३२९६॥ यतः स्थाणुनरौ दृष्टौ कदाचिदिति तद्गतिः।
संशयो युज्यते तत्र दृष्टस्त्वेवं न सर्ववित्॥३२९७॥ [G.860] कदाचिदुपलब्धेऽर्थे इत्यादिना परः अयोगोलकवढ्यादिदृष्टान्तसंशयकारणमुपलम्भं दर्शयन्, सर्वज्ञे च तदभावादयुक्तः संशय इति प्रतिपादयन् हेतोरनैकान्तिकतामेव समर्थयते। यो ह्यर्थः कदाचिदुपलब्धपूर्वः, तत्रैव संशयो युज्यते, यथा-स्थाणौ, नान्यत्र; तस्योभयांशावलम्बित्वात् । अन्यथा हि यत् किञ्चिददृष्टं तत् सर्वमालम्बेत संशयः, ततश्चोभयांशावलम्बित्वनियमो न स्यात्। तेनायोगोलकवयादौ युक्तः संशयः; न तु सर्वज्ञे, तस्य कदाचिदप्यनुपलम्भात्।। ३२९६-३२९७॥ . नन्क्त्यिादिना प्रतिविधत्ते
ननु मातृविवाहादेरसत्त्वं मुक्तसंशयम् ।
एतेनैव प्रकारेण तव धीमन् प्रसज्यते ॥३२९८ ॥ यदि कदाचिदुपलब्धेऽर्थे संशयोऽन्यत्राभावनिश्चयः, तदाऽमुना न्यायेन भवतो मातृविवहादेरसत्त्वमसंशयितं प्राप्नोति । न हि भवता कदान्निन्मातृविवाह उपलब्धपूर्वः, येनात्रापि नाभावनिश्चयो भवेद् भवतः । अत्र च शेषं चोद्यमुत्तरपूर्ववद् वाच्यम्। धीमन्नित्युपहासवचनम् ॥ ३२९८॥ . यदयेवम, निर्निबन्धन एव तर्हि संशयः प्राप्तः? इत्याह. अस्माभिः संशयस्त्वत्र प्रमाभावेऽपि वर्ण्यते।
भावेऽभावे च वस्तूनां प्रमाणविनिवृत्तितः॥३२९९॥ प्रमाणाभावमात्रस्य हि वस्तुभावाभावयोरपि प्रदर्शनादव्यविस्थित्वम्, अतः सदसत्तानिश्चयानुत्पत्तेरेव संशयो वर्ण्यते । यथोक्तम्-"उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशयः" (न्या० द० सू० १.१.२३) इति ॥ ३२९९ ॥ स्यादेतत्-नैव वस्तुसदसत्तयोरुभयत्रापि प्रमाणनिवृत्तिर्दृश्यत इत्याह
नेत्रादीनां हि वैकल्ये वस्तुसत्त्वेऽपि न प्रमा। . तेषामविकलत्वेऽपि वस्त्वभावाद् घटादिवत्॥३३००॥ ततश्चानुपलम्भस्य केवलस्य द्विधेक्षणात्।
ततप्रमाभावतोऽप्यस्तु सर्वज्ञे संशयो वरम्॥३३०१॥ १. तथोभयांशा०-पा०। २. विवाहादेस्सत्त्व०-पा०/