________________
७२८
तत्त्वसंग्रहे
तथा हीत्यादिना इदमेव समर्थयते
तथा हि सर्वशब्देन सर्वे प्राणभृतो मताः।
स च सर्वाबहिर्भूत इत्यदृष्टिरनिश्चिता ॥३२९०॥ स चेति सर्वज्ञः ॥ ३२९०॥
स्यादेतद्-अर्वाग्दर्शिन एव सर्वशब्देन विवक्षिता न तु सर्वज्ञः, तेन शङ्का न भविष्यति? इत्याह
तदेकपरिहारेण प्रतिबन्धोऽत्र को भवेत्। __ न ह्यन्यैरपरिज्ञानात् स्वरागादि निवर्त्तते ॥३२९१॥
यदि हि तस्य सर्वज्ञस्य परिहारेणान्येषामग्दिर्शिनामनुपलम्भो हेतुत्वेनोपादीयते [G.859] तदाऽनैकान्तिकता; तस्य स्वानुपलम्भवत् सर्वज्ञाभावेन सहाविनाभावलक्षणस्य प्रतिबन्धस्याभावात्। न हीत्यादिना तमेव प्रतिबन्धाभावं समर्थयते ॥ ३२९१ ।।
एवमनुपलम्भाख्यस्य प्रमाणस्यानैकान्तिकत्वम्, असिद्धत्वं च प्रतिपादितम्, इदानीमभावप्रमाणविषयीकृतविग्रहत्वादित्यस्यापि हेतोः सन्दिग्धासिद्धतेति प्रतिपादयन्नाह
केचिदर्वाग्द्रशो वापि 'प्रपत्स्यन्तेऽनुमानतः।। काश्चिदेव हि केषाञ्चिन्निपुणा मतयः क्वचित्॥ ३२९२॥ तथा हि वेदभूम्यादेः क्षणिकत्वादिसाधनम्। । पुरः प्रोक्तं सुविस्पष्टमपि नो ,लक्षितं जडैः॥३२९३॥ तदेवं शङ्कया नास्या ज्ञानाभावोऽपि निश्चितः।
यतोऽसत्त्वं प्रपत्स्यन्ते निर्विशङ्का हि जातयः॥३२९४॥ केचिन्निपुणमतय अर्वाग्दर्शिनोऽपि सन्तः कदाचिदनुमानत: सर्वज्ञं प्रतिपद्यन्त इति सम्भाव्यमानत्वात् सन्दिग्धासिद्धत्वम् 'अभावप्रमाणविषयीकृतत्वात्' इत्यस्य हेतोः । तथा हि-वेदध्वनिधरणिगिरितनुवज्रादीनां क्षणिकत्वानात्मत्वादि स्फुटतरमपि भवद्भिर्मीमांसकपशुभिरनुपलक्षितमपि सत्, अस्माभिर्दृढतरसाधनोपदर्शनेन प्रसाधितम्। तथा सर्वज्ञे यदि नाम साधनमिदानीं नोपलभ्यते, तथापि सम्भाव्यमानत्वात् सन्दिग्धमित्यतः प्रमाणपञ्चकविरहस्वभावाभावप्रमाणविषयीकृतविग्रहत्वमसिद्धम्; सन्दिह्यमानत्वात्। यत इति मानाभावात् ॥ ३२९२-३२९४॥
किञ्च-मा भून्नामाग्दिर्शिनां सर्वेषामेव सर्वज्ञसिद्धावनुमानम् । तथाप्यनैकान्तिकता हेतोरिति दर्शयन्नाह
अभावेऽप्यनुमानस्य नातोऽसत्ताविनिश्चयः।
असमारब्धधूमादिकार्यवयादिसत्त्ववत् ॥३२९५ ॥ प्रतिपादितं हि पूर्वं यथा न प्रमाणं वस्तुनो हेतुर्नापि व्यापकम्, तत् कथमस्य निवृत्तावपि वस्तु निवर्तते । तथा हि-अयोगोलकवढ्यादेरनारब्धधूमादिकार्यस्यापवरककुहरान्तर्गतस्य १-१. प्रपश्यन्ते-पा०, गा०। २. ०दनुमिते:-पा०।