SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७२७ उपदेशाम्न सर्वज्ञेऽप्ययं कि वेद्यते तथा। इदं च स्वोक्तमपरं किमत्र न समीक्ष्यते॥३२८४॥ सर्वदा चैव पुरुषाः प्रायेणानृतवादिनः। यथाऽद्यत्वे नं विस्त्रम्भस्तथातीतार्थकीर्तने॥३२८५॥ सिद्ध इति प्रकृतेन सम्बन्धः । अतिप्रसङ्गापादनमुपदेशस्यानैकान्तिकतामादर्शयनाह-न सर्वज्ञेऽपीति। अयमिति उपदेशः। सर्वज्ञे किं न विद्यते, अपि तु विद्यत एव। तत्र यदि मातृविवाहाद्युपदेशः प्रमाणीक्रियते, सर्वज्ञोऽस्तीत्ययमस्मदीयोऽप्युपदेशः किं न प्रमाणीक्रियेत; विशेषाभावात् ! किञ्च-स्ववाचैवोपदेशस्याप्रामाण्यमुक्तं भवतेति दर्शयतिइदं चेत्यादि ॥ ३२८४-३२८५ ॥ एवं तावन्न स्वोपलम्भनिवृत्तिः सर्वज्ञाभावसिद्धये प्रमाणं युक्ता, निर्विशेषणाया अनैकान्तिकत्वात् सविशेषणायाश्चासिद्धत्वान्न सर्वज्ञासत्त्वसाधने प्रामाण्यं युक्तमित्येतत् प्रतिपादयन्नाह मा वा भूदुपदेशोऽस्य प्रामाण्यं वा तथापि वः।। कृतोऽयं निश्चयः सर्वैः सर्वविन्नोपलभ्यते॥३२८६॥ इत्येवं निश्चयस्तस्मात् सर्वसत्त्वात् प्रदर्शने। तदृष्टौ सर्वविद्भूतो भवानिति च वर्णितम्॥ ३२८७॥ उपदेश इति । सर्वविदोऽस्तित्वप्रतिपादक इति शेषः । अस्य-प्रामाण्यं वेत्युपदेशस्य। (G.858] सर्वसत्त्वात्मदर्शन इति। सर्वसत्त्वस्वभावदर्शने। अस्त्येवास्माकं सर्वसत्त्वात्मदर्शनमिति चेद् ? आह-तदृष्टावित्यादि। तदृष्टौ सर्वसत्त्वात्मदृष्टौ ॥ ३२८६-३२८७॥ अन्यथा संशयो युक्तोऽनुपलम्भेऽपि सत्त्ववत्। सर्वसत्त्वात्मदर्शनाभावे। सत्त्ववदिति देशादिविपकृष्टस्य वस्तुनः सत्तायामिव सत्त्ववत्। एतदुक्तं भवति-यथा देशादिविप्रकृष्टस्य वस्तुनः सत्यप्यनुपलम्भे तत्सत्तायां संशयो भवति, सत्यपि वस्तुन्यनुपलम्भात्; एवमन्यपुरुषवर्त्तिनि सर्वज्ञविषयोपलम्भेऽपि संशयो युक्तः। अथ वा अयमर्थः-यथा सर्वज्ञसत्तायामनुपलम्भेऽपि संशयः, तथा सर्वज्ञत्वविषयोपलम्भेऽपि संशयः; द्वयोरपि स्वभावविप्रकर्षणानुपलम्भसम्भवात्। ननु वस्तुसत्त्वे संशयो युक्त; यतः सत्यपि वस्तुनि तदनुपंलम्भस्य दर्शनात् कदाचित् स्यादिति सम्भाव्यमानत्वात्, न तु सर्वज्ञदर्शनं कस्यचिदग्दिर्शनस्य सम्भाव्यते, न चासम्भाव्यमाने वस्तुनि प्रेक्षावतः संशयो युक्तः? इत्यत आह केचित् सर्वविदः सन्तो विदन्तीति हि शङ्कयते॥३२८८॥ स्वयमेवात्मनाऽऽत्मानमात्मज्योतिः स पश्यति। इत्यप्याशयतेऽतश्च सर्वादृष्टिरनिश्चिता॥३२८९॥ स्वयमेवेति । परसिद्धान्ताभ्युपगमादुक्तम्। स्वयमेवेत्यस्यैव निर्देश आत्मनेत। आत्मेति पुरुषः । ज्योतिरिति। चिद्रूपत्वेन प्रकाशात्मकत्वादात्मनः ॥ ३२८८-३२८९॥ १.०प्रसङ्गापादनमुप०- पा०;प्रसङ्गापादानादुप०- गा० । २-२. एवं हि निश्चयो हि स्यात्-पा०, गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy