________________
७२६
तत्त्वसंग्रहे नापरिच्छिन्नस्य तद्विपरीतधर्मव्यवच्छेदः सम्भवति। न त्वेवं सर्वज्ञे सम्भवति, न हि सर्वे नरा धर्मिणो दृश्याः कस्यचित्, येन तेष्वसर्वज्ञत्वयवच्छेदः सिध्येत्; तस्यैव सर्वज्ञत्वप्रसङ्गात्। तस्मादनुपलभ्यधर्मिणि सर्वज्ञत्वासर्वज्ञत्वव्योर्विरोधो न सिध्यति। स्वसन्ताने तु सिध्यति; तत्रापि नानागतावस्थायां तस्यास्तदानीमदृश्यत्वात्। तस्मात् स्थिथतमेतत्-दृश्यस्यैव कार्यकारणादिभावः सिध्यतीति। यश्चात्मा सविशेषण इति । स सिध्यतीति सम्बन्धः । तत्र आत्मा स्वभावः, सह विशेषणेन वर्त्तत इति सविशेषणः । तत्र विशेषणं त्रिविधविप्रकर्षरहितत्वम् । एता अदृष्टय इति । कारणाद्यनुपलब्धयः सर्वज्ञस्य केनचित् सह कार्यकारणभावविरोधव्याप्यव्यापकाभावासिद्धः। सत्स्वन्येषूपलम्भकारणेषु क्वचित् प्रत्यक्षत्वासिद्धेश्च । निषेधाङ्गं न चापरमस्त्यनुपलब्धिविशेषं त्यक्त्वा ॥ ३२७९-३२८० ॥ . ..
पुनरपि स्वानुपलम्भस्य निर्विशेषणस्य प्रयोगेऽतिप्रसङ्गापादनेनानैकान्तिकतामुद्भाव
यन्नाह
यदि त्वदृष्टिमात्रेण सर्ववित् प्रतिषध्यते।
तदा मातृविवाहादिनिषेधोऽपि भवेत् तव ॥३२८१॥ मातृविवाहादीत्यादिशब्देन स्वपित्रोः सुरतोपभोगादिपरिग्रहः, ततश्च जारजातत्वमापन्नं भवत इति भावः। यथोक्तम्-"पद्यत्र भवतो मन्दचक्षुषोऽनुपलब्धिरर्थानपाकुर्यात् हन्त हतोऽसि, पितृव्यपदेशनिबन्धनस्याप्यप्रवृत्तिप्रसङ्गात्" ( ) इति ॥ ३२८१ ॥ अत्र परस्य परिहारमाशङ्कते
सुताख्यकार्यदृष्ट्या चेद्धेतोस्तस्यास्तितागतिः।
तदभावेऽपि तत्कार्यं ननु कस्याञ्चिदीक्षते ॥३२८२॥ तस्य मातृविवाहादिकस्य हेतोः सुताख्यादिकार्यदर्शनादनुमानप्रमाणतः सिद्धत्वात् तदनुपलब्धिर्न सिद्धेति न तदभावप्रसङ्गः । तदभाव इत्यादिनाऽस्य कार्यहेतोर्व्यभिचारमादर्शयति। तदभावइति तस्य विवाहस्याभावे। तथा विवाहितभा च सह सुरतोपभोगाभावेऽपि कस्याश्चिद् दुष्टयोषितः परपुरुषसङ्गत्या सुताख्यं कार्यमुपलभ्यते, तद्वद् भवतो' मातुरपि स्यादित्यसिद्धमनुमानम्, ततश्च भवतो जारजातत्वप्रसङ्गो [G.857] दुर्निवारः । आचार्यधर्मकीर्तिनाऽपि विशिष्टपितृव्यपदेशनिबन्धनाभावप्रसङ्गापादनस्य विवक्षितत्वाज्जारजातत्वप्रसङ्गापादनमेव कृतम्।। ३२८२ ॥ अन्योपलम्भत इत्यादिना परस्योत्तरमाशङ्कते
अन्योपलम्भतस्तस्य नासत्ता गम्यते यदि।
ननु चान्योपलम्भस्ते सिद्धस्तद्विषयः कथम् ॥३२८३ ।। अन्येषां पुरुषाणामुपलम्भोऽन्योपलम्भः । तस्येति मातृविवाहादेः। नासत्ता गम्यते, किं तर्हि ? सत्तैव। अत्रान्योपलम्भसिद्धिमुद्भावयन्नाहर- ननु चेत्यादि । ३२८३ ॥
कथमिति पृष्टः सन् पर आह
•
माल: दावा- पा.. गा../