________________
अतीन्द्रियार्थदर्शिपरीक्षा
स्वभावव्यापककारणानुपलब्धयः सूच्यन्त इत्यतस्त्रिविधाया मूलप्रभेदरूपायाः सर्वज्ञाभावसिद्धिं प्रत्यसामर्थ्यप्रतिपादनात् तच्छाखाभूतानां यत्नमन्तरेणैव प्रतिपादितं भवतीति नास्यां पृथगसामर्थ्यप्रतिपादनाय यत्नः कार्यः, न हि मूले छिन्ने शाखानामवस्थितिर्भवेत्। परमार्थतस्तु स्वभावानुपलब्धिरेन सर्वासां मूलभूता, अर्थान्तरभेदाश्रयणात् तु त्रिविधा मूलत्वेनोक्ता
।। ३२७७-३२७८ ॥
स्यादेतत्-यदि सर्वज्ञोऽनुपलब्धिलक्षणप्राप्तः, तदा मा भूत्तदनुपलम्भविशेषसिद्धिः, [G.855] तत्कारणव्यापकयोस्तूपलब्धिलक्षणप्राप्तत्वात् किमिति तददृष्टिविशेषो न सिध्यति, तद्विरुद्धादीनां चोपलभ्यस्वभावत्वादुपलम्भः किमिति न सिध्येद् ? इत्याहकार्यकारणताव्याप्यव्यापकत्वविरोधिताः
1
दृश्यत्वे सति सिध्यन्ति यश्चात्मा सविशेषणः ॥ ३२७९ ॥ सर्वज्ञो न च दृश्यस्ते तेन नैता अदृष्टयः ।
तन्निराकरणे शक्ता निषेधाङ्गं न चापरम् ॥ ३२८० ॥ कार्यकारणभावो व्याप्यव्यापकत्वं च' विरोधता चेति द्वन्द्वः । प्रत्यक्षानुपलम्भसाधनो हि कार्यकारणभाव:, सर्वज्ञादेरदृश्यत्वान्न तेन सह कार्यकारणभावः सिध्यति । नापि व्याप्यव्यापकभावः; तस्याप्युलब्धिलक्षणप्राप्तस्यानुपलम्भपूर्वकत्वात् । तथा हि-यन्निवृत्तौ यन्नियमेन `निवर्त्तते स तेन व्याप्तो व्यपदिश्यते, निवृत्तेश्च नानुपलब्धिलक्षणप्राप्तानुपलम्भमन्तरेण सिद्धिर्भवति । विरोधितापि दृश्ययोरेव वस्तुनोः सिध्यति, नादृश्ययोः । तथा हि- सहानवस्थानलक्षणस्तावद्विरोधोऽविकलकारणस्य भवतोऽन्यभावेऽभावाद् दृश्यते । भावाभावौ च नानुपलभ्यस्वभावयोर्वस्तुनोर्निश्चेतुं शक्यौ । परस्परंपरिहारस्थितलक्षणोऽपि विरोधों यद्यद्व्यवच्छेद्यानान्तरीयको ? यस्य परिच्छेदस्तयोर्व्यवस्थाप्यते, यथा क्रमाक्रमयोः । परिच्छेदश्च नादृश्ये सम्भवति ।
७२५
यद्येवम्, भावाभावांदीनां कथं विरोधसिद्धिः, न हि तत्रोभयोर्दृश्यत्वमस्ति ? नैष दोष: ; नहि भावाभावौ पृथक्परिच्छिद्य पश्चात्तयोर्व्यवच्छेदयव्यवच्छेदकभावाद् विरोधो व्यवस्थाप्यतें, किं तर्हि ? पृथक्परच्छिन्नयोरेव । तथा हि- एकस्मिन् धर्मिण्येककालं तयोविरोधो व्यवस्थाप्यते नतु धर्म्यन्तरे । न हि गोरभावे अश्वस्य भावविरोधः कश्चित् । नाप्येकत्र धर्मिणि भिन्नकालयोस्तयोर्विरोधः, नहि प्रागभूतस्य वा पश्चाद् भावाभावौ न सम्भवतः । एकस्मिंस्तु वस्तुनि तयोर्युगपदपरिच्छेदाद्विरोधः, न तु तत्रैव; परिच्छिद्य व्यवच्छेदात् । अपरिच्छिन्नस्य कथं व्यवच्छेद इति चेत् ? अत एव । यत एव न परिच्छिद्यते तत्र धर्मिणि तत एव तस्य व्यवच्छेदः सम्भवेत् । अन्यथा तत्र परिच्छिन्नधर्मस्य कथं व्यवच्छेदः शक्यते कर्तुम्! अयमेव हि तदभावव्यवच्छेदो य एव तत्परिच्छेदः, स एवान्याभावस्य तत्र परिच्छेदो य एवान्यव्यतिरिक्तस्य तस्य परिच्छेदः । तस्माद् यस्य धर्मिणोऽभावो व्यवच्छिद्यते, [G.856] भावश्च परिच्छद्यते, सोऽवश्यं दृश्योऽभ्युपगन्तव्यः । न ह्यदृश्यस्य परिच्छेदः, १. पा०, गा० पुस्तकयोर्नास्ति । २. यद्यवच्छेद्या० - पा०; यद्यवदच्छेद्यानानन्त०- गा० ।
३. ० विरोक :- जै० ।
४. ० भूतस्य पा० ।