________________
तत्त्वसंग्रहे
अत एव स्ववचनविरोधप्रसङ्गान्न भवता सर्वज्ञः स्वयमुपलब्धिलक्षणप्राप्तोऽङ्गीकर्त्तव्यः, अन्यथा हि स्वस्मिन् सर्वज्ञत्वमभ्युपेतं स्यात् ॥ ३२७४ ॥
कथम् ? इत्याह
७२४
सर्वार्थविषयं ज्ञानं यस्य दृश्यः स ते कथम् । सर्वार्थविषयं ज्ञानं तवापि यदि नो भवेत् ॥ ३२७५ ॥
यदि हि सर्वार्थगोचरम्, तच्चापि ज्ञानं भवेदेवं ते सर्वज्ञ उपलब्धिलक्षणप्राप्तो भवेन्नान्यथा, न ह्यसर्वविदां सर्वविदुपलम्भगोचरो भवति ॥ ३२७५ ॥
स्यादेतत् — मा भूदुपलब्धिलक्षणप्राप्तोऽस्माकं सर्वज्ञः, तथापि किमित्येते ऽनुपलब्धिप्रयोगास्तदभवसिद्धये न सम्भवन्ति ? इत्याह
तेनादृष्टिविशेषोऽयं
कारणव्यापकात्मनाम् ।
प्रकृत्या दृश्यरूपत्वात् सर्वज्ञस्य न सिध्यति ॥। ३२७६ ।। यस्मादुपलब्धिलक्षणप्राप्तस्तव न भवति सर्वज्ञः, तेन कारणेन सर्वज्ञकारणव्यापक
स्वभावानामदृष्टिविशेष [G.854] उपलब्धिलक्षणप्राप्तानुपलम्भो न सिध्यति । स्वभावकारणव्यापकानुपलब्धिप्रयोगा आद्यास्त्रयो न सिध्यन्तीति यावत् ॥ ३२७६ ॥
यद्येवम्, अन्ये तर्हि शेषाः सिध्यन्तु तथापि सिद्ध एव सर्वज्ञाभाव इति चेद् ?
आह
इयं च त्रिविधा दृष्टिर्विश्वरूपा प्रवर्त्तते । तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगतः
।। ३२७७ ।।
इयमेवानन्तरोक्ता स्वभावव्यापककारणानामदृष्टिस्त्रेधा प्रपञ्च्यमाना नवधा भिद्यते । कथम् ? इत्याह- तत्तद्विरुद्धाद्यगतीत्यादि । तच्छब्देन प्रक्रान्तं स्वभावव्यापककारणाख्यं त्रयमभिसम्बध्यते । तेन स्वभावादिना विरुद्धं तद्विरुद्धम्, तच्च त्रिविधमेव भवति, स्वभावव्यापककारणविरुद्धभेदात्, तद्विरुद्धमादिर्यस्य तद् विरुद्धादि । आदिशब्देन विरुद्धकार्यकारणविरुद्धकार्य- विरुद्धव्याप्तास्त्रयो गृह्यन्ते । पुनर्द्वितीयेन तच्छब्देन तदेव स्वभावादित्रयं सम्बध्यते । तच्च तद्विरुद्धादि चेत् तत्तद्विरुद्धादीति । यथाक्रमं तयोरगतिगती तद्विरुद्धाद्यगतिगती । तदगति--- स्तद्विरुद्धादिगतिश्चेत्यर्थः । तयोर्भेदस्तेन प्रयोग इति समासः । तत्र तदगत्या साक्षात् त्रिविधा स्वभावकारणव्यापकानुपलब्धिर्निर्दिष्टा।
मूलप्रभेदरूपाया अस्याः सर्वविदं प्रति ।
साधिते शक्तिवैकल्ये व्यस्ता अन्या अयत्नतः ॥ ३२७८ ॥
अस्या एव त्रिविधाया अदृष्टेः शेषानुपलब्धयः पारम्पर्येण सूचिका इत्यत इयं त्रिविधानुपलब्धिरासां मूलभेदरूपा भवति । तथा हि- तद्विरुद्धगत्या स्वभावविरुद्धोपलब्धिः, व्यापकविरुद्धोपलब्धि:, कारणविरुद्धोपलब्धिश्च निर्दिष्टा । आदिशब्देन विरुद्धकार्योपलब्धिः, कारणविरुद्धकार्योपलब्धिः विरुद्धव्याप्तोपलब्धिश्च संगृहीताः । एताभिश्च पारम्पर्येण यथायोगं
९. तत्रापि पा०. गार : तवापि — गा ।
३ नवरूपा गा।
२. ० विशेषोत्थं- पा०, गा० ।
४. चेति पा०, गा० ।
५. ० दिवानिश्चे० - पा० ।