________________
अतीन्द्रियार्थदर्शिपरीक्षा
७२३ . स्वोपलम्भस्य चार्थेषु निखिलेषु विनिश्चये। कुतश्चिद् भवतो ज्ञानाद्धेतुत्वव्यापकत्वयोः ॥ ३२७२॥ भवानेव तदा सिद्धः सर्वार्थज्ञोऽप्रयत्नतः।
तंतश्च स्वात्मनि द्वेषः कस्ते सर्वविदि स्वतः ॥३२७३॥ हेतुत्वव्यापकत्वयोरिति । निश्चयापेक्षया षष्ठी। उपलम्भस्य चार्थेष्विति षष्ठीसप्तम्यौ हेतुत्वव्यापकत्वयोरित्येतदपेक्ष्य यथाक्रम सम्बन्धे विषयभावे च योज्ये। एतदुक्तं भवतियदि भवता कुतश्चित् प्रमाणात् स्वोपलम्भस्य सर्वार्थेषु हेतुत्वे व्यापकत्वं निश्चितम्, तदाऽऽत्मनि स्फुटतरमेव त्वया सर्वज्ञत्वं प्रतिज्ञातं भवति। न ह्यसर्वविदो ज्ञानमशेषज्ञेयव्यापकं भवति। सर्वज्ञाभावसिद्धये च साधनोपादानात् तदेव निषिध्यत इति स्ववचनव्याघातः ॥३२७२-३२७३ ॥
एवं तावनिर्विशेषणः स्वानुपलम्भो न सर्वविदोऽसत्त्वप्रसिद्धये निर्देशनमर्हति, नाप्युपलब्धिलक्षणप्राप्तस्य सतोऽनुपलम्भादिति विशेषणात् सविशेषणः । तथा हि-स निर्दिश्यमानः स्वशब्देन वा निर्दिश्यते, यथा नास्ति क्वचित् प्रदेशविशेषे घट उपलब्धिलक्षणप्रासस्यानुपलम्भादिति निर्देशः, तथा सर्वज्ञाभावसिद्धयेऽपि स्यात् । अथार्थान्तरस्य तत्कारणव्यापकात्मन उपलब्धिलक्षणप्राप्तस्याभावोपदर्शनांदस्वशब्देन, यथा-नास्त्यत्र धूमो वह्नयभावात्, नास्त्यत्र शिंशपा वृक्षाभावादिति ? न ह्यप्रतिबद्धस्याहेत्वव्यापकभूतस्यान्यस्य विनिवृत्तावपरस्य नियमेन निवृत्तिर्युक्तेति पूर्वमुक्तम्-अतिप्रसङ्गापत्तेरिति । न चाप्यनिश्चितस्वहेतुव्यापकव्यतिरेकस्यार्थस्य कारणव्यापकयोर्व्यतिरेका व्यतिरेक: सिध्यतीति, अतस्तत्राप्युपलब्धिलक्षणप्राप्तस्येति विशेषणमाश्रयणीयम्। एवं सर्वज्ञेऽपि स्यात् । यद्वा-अर्थान्तरस्य साक्षात् पारम्पर्येण वा विरुद्धस्यैवं विधानात् तनिषेधः, नाविरुद्धस्य; तस्य तत्सहभावसम्भवात्। [G.853] यथा- नास्त्यत्र शीतस्पर्शो वह्नरिति साक्षाद्विरुद्धस्य वह्नर्विधानाच्छीतस्पर्शनिषेधः, तद्वत् सर्वज्ञनिषेधेऽपि स्यात् । पारम्मर्येण तु विरुद्धस्य कदाचिद् तद्व्यापकविरुद्धस्यैव वा विधानात् सर्वविदो निषेधः, यथा-तुषारस्पर्शव्यापकशीतविरुद्धवह्निविधानात् तुषारस्पर्शनिषेधः । तत्कारणविरुद्धविधानाद्वा, यथा-रोहंमर्षादिकारणशीतविरुद्धदहनविशेषविधानाच्छीतकार्यरोमहर्षादिनिषेधः । तद्विरुद्धकार्यस्य वा विधानात्, यथा क्वचित् प्रदेशविशेषे शीतादिविरुद्धवढ्यादिकार्यस्य.धूमादेर्विधानात् शीतस्पर्शनिषेधः । तत्कारणविरुद्धकार्योपलम्भाद्वा, यथारोमहर्षादिकारणशीतविरुद्धवह्निकार्यधूमोपदर्शनाद् रोमहर्षादिनिषेधः-नरे रोमहर्षादिविशेषयुक्तपुरुषवानय प्रदेशो धूमादिति। तद्विरुद्धव्याप्तस्य वा विधानात् तन्निषेधः, यथाध्रुवभावित्वविरुद्धाध्रुवभावित्वव्याप्तस्य सापेक्षत्वस्य' विधानाद् ध्रुवभावित्वनिषेध इति । त. एते सर्व एवानुपलब्धिप्रयोगाः सर्वज्ञाभावसिद्धये न सम्भवन्ति; तस्य सर्वविदः सर्वदैवानुपलब्धिलक्षणप्राप्तत्वात् । एषां चोपलब्धिलक्षणप्राप्तानुपलम्भप्रभेदत्वादित्येतदर्शयन्नाह -
अत एव न दृश्योऽयं सर्वज्ञस्ते प्रसिध्यति। तद् दृश्यत्वे हि सार्वज्यं तथैव स्यादयत्नतः॥३२७४॥
१. यथार्था०-गा०। ४. पुरुषवान्नायं-गा।
२. चापनिश्चित०-पा०। ५. सापेक्षस्य:-पा०।
३. पा०, गा० पुस्तकयांनास्ति। ६. ०लम्भभेदत्वादित्येतद दर्शयति-पा०,गा।