________________
७२२
तत्त्वसंग्रहे न चाप्यदृष्टिमात्रेण तदसत्ताविनिश्चयः।
हेतुव्यापकतायोगादुपलम्भस्य वस्तुषु॥३२६९॥ मात्रग्रहणमुपलब्धिलक्षणप्राप्तस्येत्येतद्विशेषनिरासार्थम्। तदसत्ताविनिश्चय इति। सर्वज्ञासत्ताविनिश्चयः । कस्मात् ? वस्तुषु-वस्तुविषये उपलम्भस्य हेतुत्वव्यापकत्वायोगात्। न ह्यग्दिर्शनस्योपलम्भो वस्तूनां व्यापकः, वृक्षत्वमिव शिंशपात्वस्य; सत्यपि वस्तुनि देशादिविप्रकर्षणानुपलम्भसम्भवात् । नापि कारणमग्निरिव धूमस्य, वस्तूनामेवोपलम्भं प्रति कारणत्वाभावात्। न चाकारणाव्यापकभूतस्यान्यस्य निवृत्तावन्यस्य निवृत्तिर्युक्ता; अतिप्रसङ्गात्। या च कार्यानुपलब्धिरुक्ता', न सा कारणमात्रस्याभावं गमयति, किं तर्हि ? अप्रतिबद्धसामर्थ्यस्यैव। न चार्वाग्दर्शनोपलम्भं प्रति वस्तूनामप्रतिबद्धसामर्थ्यमस्ति। येन स निवर्तमानो वस्तूनामभावं साधयेत् ॥ ३२६९॥ कारणव्यापकयोर्निवृत्तावपि कथमन्यस्य निवृत्तिरिति चेद् ? अत्राह
कारणव्यापकाभावे निवृत्तिश्चेह युज्यते। हेतुमव्याप्तयोस्तस्माद् उत्पत्तेरेकभावतः॥३२७०॥ कृशानुपादपाभावे धूमाम्रादिनिवृत्तिवत्।
अन्यथाऽहेतुतैव स्यानानात्वं च प्रसज्यते॥३२७१॥ हेतुर्विद्यते यस्य तद्धेतुमत्, कार्यमित्यर्थ: । हेतुमच्च व्याप्तं चेति विग्रहः । तयोर्हेतुमद्व्याप्तयोर्निवृत्तियुज्यत इति पूर्वेण सम्बन्धः । अत्र कारणम्- तस्मादुत्पत्तेरेकभावत इति। हेतुनिवृत्तौ हि सत्यां हेतुमानिवर्त्तते, ततो हेतोरुत्पत्तेरात्मभावप्रतिलम्भाद्धेतुमतः; यथा कृशानुनिवृत्तौ धूमस्य निवृत्तिः । तथा व्यापकनिवृत्तौ व्याप्यं निवर्त्तते, तेन व्यापकेन सह तस्यैकभावत: एकस्वभावत्वात्; यथा वृक्षनिवृत्तौ आम्रखदिरादिनिवृत्तिः वृक्षविशेषस्यैव आम्रादित्वेन प्रतीतेः; अन्यथा हि यदि कारणनिवृत्तावपि न निवर्तेत तत्कारणमेव न स्यात्। न हि यद् यस्मिन्नसत्यपि भवति तत् तस्य कारणं युक्तम्; अतिप्रसङ्गात् । नापि यन्निवृत्तौ यन्न निवर्त्तते स तस्य स्वभावो युक्तः, गौरिव गवयस्य । तस्माद् व्यापक एव स्वभावो व्याप्यं कारणमेव च [G.852] कार्यं निवर्तमानं निवर्तयेत्, नान्यद्; अतिप्रसङ्गात् । यथोक्तम्
"तस्मात् तन्मात्रसम्बद्धः स्वभावो भावमेव तु। निवर्तयेत् कारणं वा कार्यमव्यभिचारतः ॥ अन्यथैकनिवृत्त्याऽन्यविनिवृत्तिः कथं भवेत्। नाश्ववानिति' मान न भाव्यं गोमतापि किम्"।
(प्र० वा० ३.२२-२३) इति ॥ ३२७०-३२७१ ॥ अथापि स्वोपलम्भस्य सर्वार्थान् प्रति हेतुत्वं व्यापकत्वं चाङ्गीक्रियते, तदा स्ववचनविरोधः प्रतिज्ञायामापद्यते? इति दर्शयन्नाह
१. ०नुपलब्धिसत्ता-गा०। २. दर्शिनोपलम्भ-पा०: दर्शिन: उपलम्भ-गा० । ३. यस्मिन् सत्यपि-पा०।
४. नास्तवानिति-पा०।