SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ अतीन्द्रियार्थदर्शिपरीक्षा ७२१ तस्मात् स्मर्यमाण एव धर्मी उपमानस्य विषयः, अनुभूतमेव च वस्तु स्मरणेन विषयीक्रियते, नान्यत् । न च सर्वनरसन्तानवर्तीनि चेतांसि केनचित् सर्वविदानुभूतानि, यतः स्मरणेन विषयीक्रियेरन् । न चानुभूयमानस्य वस्तुनः सर्वनरैरसर्वज्ञत्वसाधारणधर्मनिश्चयोऽस्ति, यद्वशादसर्वज्ञत्वं सर्वनरेषूपमीयेत। यदपि सत्त्वादिकं क्वचिदसर्वज्ञे दृष्टम्, तदपि नासर्वज्ञत्वसाधारणं सिद्धम्। सर्वज्ञस्यापि [G.850] सत्त्वाद्यविरोधात् । न हि गवये सत्त्वादिधर्मदर्शनाद् घटादीनामपि गवयसादृश्यमुपमीयते। भवतु नाम सर्वनराणां सत्त्वादिना साधर्म्यम्, असर्वज्ञत्वं तु न सिध्यति । एतेनैव तत् प्रत्युक्तम्, यदुक्तम्-"नरान् दृष्ट्वा" (तत्त्व० ३२१५) इत्यादि। नापि शब्दाख्यं प्रमाणं सर्वविदो बाधकमस्ति । यत्तावत् पौरुषेयं तदप्रमाणमेव स्वयं मीमांसकैरतीन्द्रियार्थविषयेऽभ्युपगम्यते । यच्चापौरुषेयं तदप्यप्रमाणमिति निवेदितम् । न चापि किञ्चिद् वैदिकं वचनं सर्वनरोसर्वज्ञत्वप्रत्यायकमुपलभ्यते। न च तत्रानुपदेशादर्थान्तराभाव: सिध्यति; सर्ववस्तूनां शास्त्रोपदेशेऽनधिकृतत्वात्। अन्यथा हि भवन्मातृविवाहादीनामप्यभावप्रसङ्गः स्यात्; तत्रापाठात् । न चैकदेशे क्वचित् पाठादर्शनात् सर्वत्रापाठनिश्चयो युक्तः, अनेकशाखाशतान्तर्हितश्रवणादन्यत्रापि पाठस्य सम्भाव्यमानत्वात्। निमित्तनाम्नि' च' शाखान्तरे स्फुटतरमेव सर्वज्ञः पठ्यत इति पश्चात् प्रतिपादयिष्यामः। ____नाप्यभावप्रमाणविषयीकृतंत्वात् सर्वविदोऽसत्त्वसिद्धिः । तथा हि-यदि प्रमाणनिवृत्तिमात्र प्रसज्यलक्षणमभावप्रमाणं वर्ण्यते, तदा नासौ कस्यचित् प्रतिपत्तिः, नापि प्रतिपत्तिहेतुरिति न तेन विषयीकरणं युक्तम्; अवस्तुत्वात् । अतो नासौ प्रमाणम् । अथ पर्युदासावृत्त्या प्रमाणाख्याद् भावादन्यो भावे एवाभिप्रेतः? एवमपि प्रमाणाद् व्यावृत्त्यात्मतया न प्रामाण्यं सिध्येत् । न हि ब्राह्मणादन्यो ब्राह्मण एव युक्तः । स्यादेतत्-न सर्वप्रमाणव्यावृत्तोऽसौ वर्ण्यते, किं तर्हि ? विवक्षितप्रमाणपञ्चकव्यतिरेकेणान्यः प्रत्ययविशेष एव । यद्येवम्, किमाकारोऽसाविति वाच्यम्, यस्मात् प्रमाणपञ्चकागोचरस्तस्मादसौ सर्वज्ञो नास्तीत्येवमाकार इति चेत् ? यद्येवम्, आकारो न तर्हि प्रमाणम्; व्यभिचारात्। न हि प्रमाणपञ्चकस्यास्वभावाकारणभूतस्य निवृत्तावप्रतिबद्धं सर्वज्ञादिवस्तु निवर्त्तते, येनायं प्रत्यय: सत्यत्वमश्नुवीत । तस्मान्न किञ्चिद् बाधकं प्रमाणं सर्वज्ञस्यातीतिरे भावः ॥ ३२६७-३२६८॥ स्यादेतत्-अनुपलम्भो यो युष्माभिरुपवर्णितोऽनुमानत्वेन, स एव सर्वज्ञस्य बाधको भविष्यति, किमत्रास्माकमन्येन प्रमाणेनेति? सत्यमेतदनुपलम्भः प्रमाणम्; किन्त्विदमिह सम्प्रधार्यम्-किं स्वोपलम्भनिवृत्तिस्त्वया सर्वज्ञाभावसिद्धयेऽनुपलम्भोऽभिप्रेत:? आहोस्वित् सर्वपुरुषोपलम्भनिवृत्तिर्वा? अनुपलम्भोऽपि किं निर्विशेषणोऽभीष्ट उपलब्धिलक्षणप्रातस्येत्येतस्य विशेषणस्यानाश्रयणात्? आहोस्वित् सविशेषण [G.851] इति । तत्र न तावन्निर्विशेषणस्स्वानुपलम्भः प्रमाणं सर्वज्ञाभावसिद्धये युक्त इति दर्शयन्नाह१-१. पा०, गा० पुस्तकयोनास्ति। २. ०कस्यास्वस्वभाव०-पा०, गा० । २ सर्वस्यास्तीति- जै०, पा० । ४. ०षणश्चानु०-पा०।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy