________________
७२०
तत्त्वसंग्रहे सम्भवी, सर्वसामर्थ्यविरहलक्षणत्वात् तस्य। तस्माद् यस्य यदुत्पादकं प्रकाशकं वा, तत् तस्योत्पादनं प्रकाशने च सन्निहितसत्ताकमेव भवति, न तु निवृत्तस्वभावम्, यथा बीजमङ्करस्य, दीपो वा रूपस्य । न हि तौ निवृत्तावङ्करघटरूपाद्युत्पादनप्रकाशने समर्थौ भवतः।
__अपि च-निवृत्तं प्रत्यक्षमभावं साधयतीति कोऽत्रार्थोऽभिमतः? यदि तावद् वर्तमानादध्वनो निवृत्तमित्यर्थः, तदा सामर्थ्यादतीतानागतावस्थमित्येवमुक्तं स्यात् । न चातीतानागतं' वस्तु विद्यत इति पूर्वं प्रतिपादितम् । तत् कथमसतो व्यापारः सिध्येत् ! अथ वर्तमानमपि सद् यद् यत्र विषये नोत्पद्यते तत् ततो निवृत्तमित्युच्यते? एवमपि नातो वस्त्वभावसिद्धिः; व्यभिचारात्। [G.849] न हि चक्षुर्विज्ञानं गन्धरसादिविषये नोत्पद्यत इत्येतावता ततस्तदभावः सिध्येत् । तस्मान्न प्रत्यक्षतः कस्यचिदभावसिद्धिः । यद्येवम्, कथमनुपलम्भाख्यात् प्रत्यक्षात् घटाद्यभावसिद्धिः प्रदेशान्तरे भवद्भिर्वर्ण्यते? नैतदस्ति; न हि तत्राभावविषयीकरणात् प्रत्यक्षमभावं साधयतीत्युच्यते, किं तर्हि ? एकज्ञानसंसर्गयोग्ययोरर्थयोरन्यतरस्यैव या सिद्धिः साऽपरस्याभावसिद्धिरिति कृत्वा; यतस्तयोः सतोर्नेकरूपनियता प्रतिपत्तिः सम्भवति, योग्यताया अविशेषात्। न चैवं सर्वज्ञत्वस्य केनचित् सार्धमेकज्ञानसंसर्गिता निश्चिता, यस्य केवलस्योपलम्भात् तदभावं व्यवस्यामः; तस्य सर्वदैवात्यन्तपरोक्षत्वात्। एवं तावन्न प्रत्यक्षं सर्वविदो बाधकं सम्भवति। .
___ नाप्यनुमानं सर्वज्ञाभावं साधयति; तस्य विधिविषयत्वाभ्युपगमात् । यतोऽभावमेव प्रमाणमभावविषयमुपवर्ण्यते भवद्भिः', नान्यत्।
अत एवार्थापत्त्यादीनां त्रयाणामपि बाधकत्वम् ।
अथापि स्यात्-नास्माभिः प्रसज्यरूपेण सर्वज्ञभाव: प्रसाध्यते, किं तर्हि ? सर्वनरान् पक्षीकृत्य पर्युदासवृत्त्या तेष्वसर्वज्ञत्वं साध्यते, तेनानुमानादीनां व्यापारो भवत्येवेति? भवत्वेवम्; तथाप्यनुमानं तावन्न सम्भवति; सर्वनरेष्वसर्वज्ञत्त्वाव्यभिचारिलिङ्गाप्रसिद्धः । यदपि च प्रमेयत्ववक्तृत्वादिकमुक्तम्, तदपि व्यभिचारीति पश्चात् प्रतिपादयिष्यते।।
नाप्यर्थापत्तिरसर्वज्ञत्वं साधयति । प्रत्यक्षानुमानव्यतिरेकेणान्येषां प्रमाणत्वासिद्धेः । सत्यपि वा प्रमाणान्तरत्वे नार्थापत्तिस्तावदसर्वज्ञसाधने पर्याप्ता; यतो दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टपरिकल्पनार्थापत्तिः। न चासर्वज्ञत्वमन्तरेण सर्वनरेषु कश्चिदर्थो दृष्टादिर्नोपपद्यते, यतस्तदर्थापत्त्या कल्प्येत।
नाप्युपमानं क्षमम्, तथा हि-य॑माणमेव वस्तु पुरोवर्तिपदार्थसादृश्योपाधि सादृश्यमात्रं वा पुरोवर्त्तिना स्मर्यमाणवस्तुगतमुपमानेन प्रतीयते। यथानुभूतगोदर्शनस्य पुंसोऽरण्यगतस्य गवयदर्शनात् पूर्वानुभूते गवि तत्साधर्म्यज्ञानम्। यथोक्तम्
"तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम्।
प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥" (तत्त्व० १५३४) इति। १-१. ०नागतवस्तु-पा०, गा० ।
२. तावत्-पा०,गा। ३. न बाधकं-गा।
४. पा०. गा० पुस्तकयो स्ति। ५. न साधकत्वम्-गा० ।
६. रसर्वज्ञं-पा०, गा०।