________________
अतीन्द्रियार्थदर्शिपरीक्षा
७१९ पगम्यते,येन तत्र दूषणमासज्येत, किं तर्हि ? यस्य सकलक्लेशज्ञेयावरणमलव्यपगतेन चेतसा सकलमेव धर्मादिकं ज्ञेयमवभासते, स सर्वज्ञोऽभीष्टः । तत्र च भवता न किञ्चिद् बाधकं प्रमाणमभ्यधायि।.
यच्चोक्तम्-"एकस्यैव शरीरस्य यावन्तः परमाणवः" (तत्त्व० ३११६) इत्यादि, तत् केवलं प्रतिज्ञामात्रमप्रमाणकमुक्तम् । न च प्रतिज्ञामात्रादुपपत्तिशून्यादर्थसिद्धिः सम्भवति; सर्वस्य सर्वार्थसिद्धिप्रसङ्गादित्येतत् सर्वमागूर्याह
किञ्चाकारणमेवेदम् उक्तमाज्ञाप्रभावितम् । केशरोमाणि यावन्ति' कस्तानि ज्ञातुमर्हति ॥३२६७॥ यस्मान्निर्मलनिष्कम्पज्ञानदीपेन कश्चन।
द्योतिताखिलवस्तुः स्यादित्यत्रोक्तं न बाधकम् ॥३२६८॥ अकारणमिति। न विद्यते कारणम् उपपत्तिः, त्रिरूपलिङ्गाख्यानं यस्य तत् तथोक्तम्। क्लेशज्ञेयावरणमलविविक्तत्वान्निर्मलं मारतीर्थिकपरिहाणसमीरणाकम्प्यत्वादकम्प्यं यदेव ज्ञानं तदेव दीपः; प्रकाशसाम्यात् । धोतितम् विषयीकृतमखिलं धर्मादिकं [G.848] वस्तु येन स तथोक्तः । सापेक्षत्वेऽपि गमकत्वात् समासः। अत्रोक्तं न बाधकमिति । प्रमाणमिति शेषः । न केवलं नोक्तम्, नाप्यत्र किञ्चिद् बाधकमस्तीति भावः । तथा हि-न तावत् प्रत्यक्षं बाधकम्; तस्यातद्विषयत्वात्। यदेव हि वस्तु प्रत्यक्षेण यथा विषयीक्रियते तत्र प्रत्यक्षसिद्धे विपरीतो धर्मोऽभ्युपगम्यमानः प्रत्यक्षेण बाध्यते, यथा शब्दे धर्मिणि अश्रावणत्वं श्रावणत्वेन: न तु यत्र प्रत्यक्षस्याप्रवृत्तिः । न च परसन्तानवर्तीनि चेतांसि सर्वाणि प्रत्यक्षतोऽसर्वज्ञेन विषयीक्रियन्ते केनचित् । येन तत्र सर्वज्ञत्वं प्रतिज्ञायमानं प्रत्यक्षेण बाध्येत; सर्वेषामेवाग्दिर्शित्वात्। विषयीकरणे वा स एव सर्वज्ञ इत्यप्रतिक्षेपः।
स्यादेतत्-नं वयं प्रत्यक्ष प्रवर्त्तमानमभावं साधयतीति ब्रूमः, किं तर्हि ? निवर्तमानम्। तथा हि-यत्र वस्तुनि प्रत्यक्षस्य निवृत्तिः, तस्याभावोऽवसीयते, यथा शशविषाणस्य । यत्र प्रवृत्तिस्तस्य भावः, यथा-रूपादे:३ । न च सर्वज्ञविषयं कदाचित् प्रत्यक्षं प्रवृत्तमित्यतस्तनिवृत्तेस्तदभावोऽवसीयत इति? तदेतदसम्बद्धम्; न हि प्रत्यक्षनिवृत्तेर्यो भवति निश्चयः स प्रत्यक्षाद् भवति; अभावभावयोरेकत्रविरोधात्। न च प्रत्यक्षनिवृत्तिर्वस्त्वभावेन' व्याप्ता, येनासौ वस्त्वभावस्ततो निश्चीयते। सत्यपि वस्तुनि व्यवहितादौ प्रत्यक्षस्य निवृत्तिदर्शनात्।
स्यादेतत्-न प्रत्यक्षनिवृत्तेः सकाशादभावनिश्चय इति ब्रूमः, कि तर्हि ? निवृत्तं प्रत्यक्षमभावं साधयतीति? तदेतच्छब्दान्यत्वं केवलं भवतोच्यते, न त्वर्थभेदः । न च शब्दान्यत्वमात्रादर्थान्यत्वं युक्तम्; अतिप्रसङ्गात् । तथा हि-निवृत्तिर्वस्तुसत्तानिषेध उच्यते। निवृत्तशब्देनापि परमार्थतः स एवाभिधीयते । केवलमेको भेदान्तरप्रतिक्षेपेण तमाह, अपरस्त्वप्रतिक्षेपेणेति विशेषः । परमार्थतस्तु द्वाभ्यामसत्त्वमेव वस्तुनः प्रतिपाद्यते । न चाऽसतो हेतुभावः १. ०मज्ञप्रभाषितम्-- गा०। २. वा यानि-जै० पुस्तके पाठा०। ३. स्यादे-- पा०; अस्यादे:- गा० । ४. प्रवृत्तनिवृत्तेर्यो-पा०। ५. वस्तुभावेन- जै०, पा०। ६. सकाशात्स्यादभावल-पा०, गा० । ७. वासतो-पा०. गा०/