________________
७१८
तत्त्वसंग्रहे भवतु नाम नित्यस्य वचसः सम्भवः, तथापि तस्यातीन्द्रियार्थप्रतिपत्तिं प्रति कारणभावो युक्त इत्येतत् प्रतिपादयन्नाह
नित्यस्य वचसः शक्तिर्न स्वतो वापि नान्यतः।
स्वार्थज्ञाने समुत्पाद्ये क्रमाक्रमविरोधतः॥३२६३॥ तत्र स्वार्थः स्वकीयमभिधेयम्। यद्वा-स्व: आत्मा, शब्दस्य स्वभावः, अथ:अभिधेयः, स्वश्चार्थश्च स्वार्थो, तयोर्ज्ञानम्, तस्मिन् समुत्पाद्ये । तत्समुत्पादनाय नित्यस्य वचसः शक्तिः स्वतो वा भवेनिसर्गसिद्धा? कायोत्पादनं प्रति नित्यस्य विरोधात् । न हि क्रमयोगपद्याभ्यामन्यः प्रकारः सम्भवति, येनार्थक्रिया भवेत्; अन्योऽन्यव्यवच्छेदस्थितलक्षणत्वादनयोः । तेन क्रमयोगपद्याभ्यामेवार्थक्रिया व्याप्ता। न च नित्यस्य वचसः क्रमेण स्वार्थज्ञनोत्पादकत्वं युक्तम्, प्रथमकार्योत्पादावस्थायामुत्तरकालभाविज्ञानकार्योत्पादकस्वभावाप्रच्युतेस्तन्मात्रभावीनि कार्याणि युगपदेव स्युः। नापि क्रमेण युक्तम्; उत्तरकालमपि प्रथमकार्योत्पादावस्थावत् कार्यकरणसमर्थाविकलस्वभावानुवृत्तेरजनकत्वविरोधात्। प्रयोगः-यो यद्व्यापकधर्मरहितः स तद्व्याप्तधर्मविकलः,यथा वृक्षत्वधर्मशून्य घटादिस्तव्याप्तशिंशपात्वधर्मविंकलः । अर्थक्रियासामर्थ्यधर्मव्यापकक्रमाक्रमधर्मरहितं च नित्यं वेदाख्यं वचनमित्यर्थतो व्यापकानुपलब्धिः । अतो न स्वतो नित्यवचसः शक्तिसम्भवः । नाप्यन्यतः; सहकारिकारणात् । तेन शक्तेस्तत्स्वभावाव्यतिरिक्तायास्तत्स्वभाववत् कर्तुमशक्यत्वात् । अर्थान्तरत्वेऽपि सम्बन्धासिद्धेरिति बहुधा चर्चितमेतत्। तस्मादतीन्द्रियार्थपरिज्ञानस्य नित्यवचनाश्रयत्वमनुमानबाधितत्वादयुक्तम् ॥ ३२६३॥
यच्चोक्तम्-'अभावप्रमाणविषयीकृतविग्रहत्वान्नास्ति धर्मज्ञः' इति, तत्र धर्मज्ञाभावप्रतिज्ञाया [G.847] अर्थापत्तिप्रमाणबाधितत्वम्, हेतोश्चासिद्धत्वं पराभ्युपगमेनैव प्रतिपादयनाह
स्वर्गवागादयस्तस्मात् स्वतो ज्ञात्वा प्रकाशिताः। वेदकारस्तवाप्यस्ति तादृशोऽतीन्द्रियार्थदृक् ॥ ३२६४॥ प्रधानपुरुषार्थज्ञः सर्वधर्मज्ञ एव वा। तस्यानुपगमे न स्याद् वेदप्रामाण्यमन्यथा ॥३२६५॥ ते नार्थापत्तिलब्धेन धर्मज्ञोपगमेन तु।
बाध्यते तन्निषेधोऽयं विस्तरेण कृतस्त्वया ॥३२६६॥ स्वत इति स्वातन्त्र्येण । वेदानपेक्षेण ज्ञानेनेत्यर्थः। तादृश इति यादृशो भवद्भि प्रतिक्षिप्यते। अर्धापत्तिलब्धेनेति वेदप्रमाण्याभ्युपगमसामर्थ्यलब्धेन । अत एवाभावप्रमाणविषयीकृतविग्रहत्वमप्यसिद्धम्; अर्थापत्त्या विषयीकृतत्वात् ।। ३२६४-३२६६॥
यच्च सर्वशब्दस्य प्रकृतार्थोपेक्षित्वं बहुधा विकल्प्य दूषणमुक्तम्, तन्नावतरत्येव; अस्य पक्षस्यानभ्युपगमात्। न ह्यस्माभिर्धर्मादिव्यतिरिक्तविवक्षिताशेषार्थाभिज्ञतया सर्वज्ञोऽभ्यु
१. प्रकृतार्थापेक्षित्वं-गा।