________________
अतीन्द्रियार्थदर्शिपरीक्षा
७१७ सर्वे सर्वावबोधे च क्षेत्रज्ञाः प्रभविष्णवः। उपायविकलत्वात् तु बुध्यन्ते निखिलं न ते ॥ ३२५८॥ लब्धासाधारणोपायोऽशेषपुंसां विलक्षणः।
तत्रैकः सर्ववित् कश्चिदित्येवं निष्प्रमाणकम् ॥३२५९॥ एवं सर्वक्षेत्रज्ञो हि आत्मा सर्वभावबोधने समर्थ इतीष्यते, तर्हि सर्वभावबोधनस्योपायाभावत्वात् 'कोऽपि पुरुषः सर्वज्ञो नास्ति' इतीच्छमात्रमेव, नास्ति किञ्चित् प्रमाणम्। तेन वस्तुतः 'सर्ववस्तुवित् पुरुषो भवति'-इतीदं निष्प्रमाणकत्वात् यत् पञ्चप्रमाणविकलावस्तुस्वभावप्रमाणविषयकृतस्वरूपम्, तद् बन्ध्यापुत्रवत्, व्योमाब्जवद् भवतीत्ययं सिद्धः।
पुनरपि किं निराकारज्ञानेन सर्वं ज्ञायते? अथ वा साकारेण?–इत्यपि वक्तव्यम्! प्रथमपक्षे हानोपादेयभावौ विविच्य न परिच्छेदमाप्नुतः; तज्ज्ञानस्य सर्वज्ञेये प्रत्येकसमानकर्मणि विभागासम्भवात् । तद्विभक्तमपि कथं भिन्नविषयव्यवस्थं स्यात्; तत्कारणस्य प्रतीतिभिन्नत्वात्। नापि साकारपक्षः; स्वविज्ञानेनास्यैव विज्ञप्तत्वाद् विज्ञानस्वरूपभूताद् भिन्नार्थस्याविज्ञप्तत्वात्। ज्ञानमात्रेण ज्ञाता तु न सर्वज्ञो भवति; आकारग्रहणेनार्थानां दर्शनादिव्यवहारे क्रियमाणे भ्रान्त्यापत्तेः । यतो हि अन्यस्य दर्शनाश्रयेण आत्मा दृष्ट इति तत्प्रतीतिः कथं भ्रान्ता न स्यात्! उक्तद्विविधातिरिक्तं च किञ्चिदपि ज्ञानार्थग्रहणं नास्ति-इत्येवमिन्द्रियातीतार्थदर्शनं किञ्चिदपि नास्तीति सिद्धम् ॥ ३२५८-३२५९॥ इत्थमित्यादिना सर्वज्ञसिद्धिपूर्वपक्ष उपसंह्रियते
इत्थं यदा न सर्वज्ञः कश्चिदप्युपपद्यते।
न धर्माधिगमे हेतुः पौरुषेयं तदा वचः॥३२६०॥ "धर्मज्ञत्वनिषेधः" (तत्त्व० ३१२७) इत्यादिना दूषणमारभ्य यावद्
"तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टा न विद्यते । ।
' वचनेन तु नित्येन यः पश्यति स पश्यति॥" (तत्त्व० ३१७४) इति धर्मज्ञानं प्रतिषिध्य य: स्वपक्षः स्थापितः, ‘स न युक्त:-इति दर्शनायवेदानामित्याद्याह- . . .
इति मीमांसकाः प्राहुः स्वतन्त्र श्रुतिलालसाः। विस्तरेण च वेदानां साधिता पौरुषेयता॥३२६१॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टैव विद्यते।
न तु नित्येन वचसा कश्चित् पश्यत्यसम्भवात्॥३२६२॥ पूर्वं श्रुतिपरीक्षायां वेदानां पौरुषेयता साधिता, तेन नित्यस्य वचसोऽसम्भवादतीन्द्रियाणां विशिष्ट प्रतीतिराश्रयत्वेन न सिद्धा? इत्याह-तस्मादित्यादि। [G.846) तेन साक्षादेवातीन्द्रियार्थानां द्रष्टा विद्यते, न तु नित्यवचनद्वारेण; तस्य नित्यस्य वचसोऽसम्भवात् । द्रष्टैवेत्यवधारणं भिन्नक्रमं साक्षादित्यस्यानन्तरं द्रष्टव्यम् ॥ ३२६१-३२६२ ।। १. उपायविफलत्वात्-पा०, गा० ।