________________
७१६
तत्त्वसंग्रहे
अथ वा विपरीतार्थकं भवेत्। तत्र यदि सत्यार्थकं स्यात्; प्रतिज्ञाया प्रत्यक्षबाधा प्राप्ता। कथमिति चेत् ? 'सर्वज्ञो न भवति' इत्युक्तम्, तथा हि-यदि सर्वेषां वस्तूनामेकविषयिस्वभावाकारज्ञानं सम्यक्तया स्वीक्रियते, तदा बलात् सर्वाणि वस्तूनि एकत्वेनाङ्गीक्रियमाणानि स्युः । अन्यथा कथमेकाकारज्ञानं सत्यार्थकं भनेन । यदि तेन गृह्यमाणवस्तूनि एकस्वभावत्वेन सत्यानि न स्युः, कथमेकाकारज्ञानं सत्यार्थकं भवेत् ! एषापि दृष्टबाधा भवति; विषयकालस्वभावभिन्नत्वेन वस्तूनां स्वभावभिन्नत्वस्य ज्ञातव्यत्वात्, अन्यथा सर्वमपि जगदद्वयं भवेत्। द्वयम्-द्रष्टव्यम्, द्रष्टा च, शासनम्, शास्ता चेत्यादि तद् यस्य भवति तदेवं कथ्यते। एवं सति शिष्यादीनां विभागो न भवेत्; अमिश्रितस्वभावानवधारणात्।
किञ्च-यदि विपरीतार्थक इति पक्षः, तदा एकस्मिन्नेव विकल्पे स्वीक्रियमाणे सलो भ्रान्तः स्यात्, विपरीतज्ञानयुक्तत्वात्। को दोष इति चेत्? आह-उन्मत्तादीत्यादि। यदि भ्रान्तः स्यात्, तदा यथापदार्थवत् प्रतीत्युपार्जनप्रेक्षावताऽनादरणीयः स्यात्; उन्मत्तादिवाक्यवत् ॥ ३२५०-३२५४॥
सहेतु सकलं कर्म ज्ञानेनालौकिकेन यः।
समाधिजेन जानाति स सर्वज्ञो यदीष्यते ॥ ३२५५॥ . “यथा प्रधानं वा" (तत्त्व० ३२४७) इत्यत्र यदि समाधिजेनेत्याधुक्तम्। अलौकिकेनेति समाहितेन, अनास्रवेण वा ॥ ३२५५ ॥ . '
प्रत्यक्षमनुमानं वा शाब्दं वा तदतत्कृतम्। प्रमाणमस्य सद्भावे नास्तीति नास्ति तादृशः ॥३२५६॥ युगपत् परिपाट्या वा कथं कार्याद् विनाऽनुमा।
सामर्थ्यमपि नैवास्ति समर्थे सर्वमेव वा ॥३२५७॥ इत्थम्भूतस्यास्य साधकस्य प्रत्यक्षादिपञ्चप्रमाणानि न सन्तीति पूर्वं विस्तरेण प्रति पादितम्। अत एवेदृशं पुरुषार्थत्वेन प्रधानं ज्ञानवन्नास्ति। वस्तुनः सकलविशेषाग्रहणे प्रधानार्थस्य प्रतीतिरप्यसम्भवा। प्रधानस्याप्रधानस्य च परस्परपरिहारद्वारेण स्थितत्वात् अवश्यमेव तेनाप्रधानस्य विविच्य प्रधानस्य स्वभावो ज्ञातव्यः; अन्यथा कथं प्रधानं स्वस्वभावमसङ्करत्वेनं जानीयात् ! एवं सति 'इदं पुरुषार्थे उपयोगि, इदं च न' इत्येवं विविच्य प्रधानस्यावश्यमेवावधारणात्, कथमप्रधानस्य नावधारणं स्यात्।
शक्ते: पक्षोऽपि न भवतीति पूर्वं दर्शितत्वात् युगपत् परिपाट्या वेत्याधुक्तम्; वस्तूनां शक्त्यैव फलस्यानुमानं स्यात्, येनेदमनुमेयं हि सर्वज्ञस्याशेषाखिलविषयिज्ञानत्वेन स्यात् । तदपि युगपत् परिपाट्या वा न सम्भवतीति दृष्टम्। अत एव युगपत् परिपाट्या वा यत् शक्तफलम्, तन्नास्ति । तेन यदि न स्यात्, किमनुमातुं शक्यत इति शेषः । असम्भव एवेत्यर्थः । युगपत्परिपाट्या वेत्युपलक्षणम्, एका प्रकृतिः, प्रधानं च यथावत् इत्यपि द्रष्टव्यम्। अत एवाशेषवस्तुपरिज्ञानस्य शक्ति: काचिदपि न सम्भवति; तादृशफलाकारस्यासम्भवात् । किञ्च-यदि फलस्याकरणेऽपि सामर्थ्य स्यात्, सर्व सर्वफलेषु समर्थं स्यात्-इत्येतद् दर्शयन्नाह- समर्थे सर्वमेव वेत्यादि । ३२५६-५७ ॥ १. सफलं-जै० पुस्तके पाठा० ।