________________
अतीन्द्रियार्थदर्शिपरीक्षा
७१५ ज्ञानं नैकधिया दृष्टम्; [G.845] किं युगपदशेषपदार्थपरिज्ञानात् सर्ववित, आहोस्वित् परिपाट्या क्रमेण, यद्वा सर्वस्य जगत एकेन=नित्यादिना रूपेण ज्ञानात्, यथा प्रधानावगमाद्वा-यदेव हि पुरुषार्थोपयोगि कर्मफलादि तस्यैव ज्ञानात्, यद्वा सर्वपदार्थपरिज्ञानसामर्थ्ययोगात् सर्वविदुच्चये यथा अग्निः सर्वं क्रमयौगपद्याभ्यामभुञ्जानोऽपि सर्वभुगिति। तत्र प्रथमे पक्षे कल्पनाद्वयम्-एकया वा धिया युगपदशेषं जानीयाद्, अनेकया वा? न तावदेकया; परस्परविरुद्धानां शुच्यशुच्यादीनामर्थानां युगपदेकज्ञानेन ग्रहणादर्शनात्।। स्यादेतद्-विरुद्धानेकपदार्थविषया बढ्यो बुद्धयस्तस्य सकृद् वर्तन्ते? इत्याह
भिन्ना वा गतयः क्वचित् ॥३२४८ ॥ भूतं भवद् भविष्यच्च वस्त्वनन्तं क्रमेण कः। प्रत्येकं शक्नुयाद् बोद्धं वत्सराणां शतैरपि!॥३२४९॥ स्वभावेननाविभक्तेन यः सर्वमवबुध्यते। स्वलक्षणानि भावां सर्वेषां न स बुध्यते॥३२५०॥
बोद्धा सामान्यरूपस्य सर्वज्ञेनापि तेन किम् । न दृष्टा इति विभक्तिविपरिणामेन सम्बन्धः । न हि युगपद् भिन्नगतयो दृष्टा एकविज्ञानसन्ततयः सत्त्वा *इति सिद्धान्तितत्वात् । तस्मान्नैकधियापि युगपद्ग्रहणं न युक्तम्।
परिपाट्येति पक्षोऽपि न युक्तः; भूतं भवद् भविष्यच्च वस्तु अनन्तत्वात् वर्षशतैरपि ज्ञातुमशक्यत्वात्। वर्षशतग्रहणमत्रोपलक्षणम्, शतसहस्रकल्पैरपि तदशक्यमेवेति यावत् अन्यथा तस्य स्वातन्त्र्यं. हीयेत। एकस्वभावेनापि सर्वं वस्तु परिज्ञातुं न शक्यते; स्वलक्षणस्याप्यग्रहणप्रसङ्गात्। यस्य गृहीतत्वेन तेषां गृह्यमाणपरस्परभिन्नवस्तुस्वभावानामेकस्वभावो न विद्यते । स्वलक्षणाधीना चार्थक्रियासिद्धिः, तथा हि अनर्थक्रियाकारिसामान्याकारेण तद्बोधेन बोद्धः सर्वज्ञस्य अवबोधने न किञ्चिदपि प्रयोजनमस्ति; स्वलक्षणस्यापरिज्ञानत्वात् ॥ ३२४८॥ .
तेन सामान्याकारेण स्वलक्षणानि अवगम्यन्ते इति चेत्? आह... अन्याकारेण बोधेन नैव वस्त्ववगम्यते॥३२५१॥ . तदेकाकारविज्ञानं सम्यङ् मिथ्यापि वा भवेत्। सम्यक्त्वे दृष्टबाधैवं प्रसक्तं सर्वमद्वयम्॥ ३२५२॥ ततश्च शिष्यसर्वज्ञधर्माधर्मतदुक्तयः। न स्युर्वो भिन्नरूपत्वे स्वभावानवधारणात्॥३२५३॥ मषात्वे त्वेकबोधस्य भ्रान्तः प्राप्नोति सर्ववित्।
न श्रद्धेयं वचस्तस्य तदोन्मत्तादिवाक्यवत्॥ ३२५४॥ रूपज्ञानेनापि रसग्रहणप्रसङ्गात्। किञ्च-एकस्वभावग्राहि तद् ज्ञानं सत्यार्थकम्? इत आरभ्य ३२६२ तमकारिकाव्याख्यानं यावत् त्रिष्वप्यादर्शपुस्तकेषु विगलिता पञ्जिका अस्माभिर्भोटभाषानवादत: संस्कत्यात्र स्थापितेति ध्येयम-स०।