________________
७१४
तत्त्वसंग्रहे ततश्चास्यामवस्थायां बालपण्डितयोरविशेषादसर्वज्ञ एवासाविति तद्भाषितमसर्वज्ञभाषितमेव स्यात् ॥ ३२३९॥
स्यादेतत्-नैवासावुपदिशति किञ्चित्, सर्वदा निर्विकल्पसमाधिस्थितित्वात्, किन्तु तदाधिपत्येन विचित्रधर्मदेशनाप्रतिभासा विज्ञप्तयो भव्यानां भवन्ति । यथोक्तम्- "यस्यां रात्रौ तथागतोऽभिसम्बुद्धो यस्यां च परिनिवृतः, अत्रान्तरे तथागतेन एकमप्यक्षरं नोदाहृतं न प्रव्याहृतम्, तत्कस्य हेतोः? सततसमाहितो हि तथागतः. अपि तु ये अक्षररुतदेशना वैनेयिकास्ते तथागतस्य मुखादुष्णीषादूर्णायाः शब्दं निश्चरन्तं शृण्वन्ति' ( ) इत्यादि, तत्राह
तस्मिन् ज्ञानसमापन्ने चिन्तारत्नवदास्थिते। निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥३२४०॥ ताभिर्जिज्ञासितानर्थान् सर्वान् जानन्ति मानवाः। हितानि च यथाभव्यं क्षिप्रमासादयन्ति ते॥३२४१॥ इत्यादि कीर्त्यमानं तु श्रद्दधानेषु शोभते।
वयमश्रद्दधानास्तु, ये युक्तीः प्रार्थयामहे ॥३२४२॥ चिन्तारत्नम् चिन्तामणिः । अयमत्र समुदायार्थ:-ये श्रद्धालवस्तान् प्रतीदमप्रमाणकमुपवर्ण्यमानं शोभेत, ये तु पुनरस्मद्विधाः प्रमाणोपपन्नार्थग्राहितया युक्तिमेव प्रार्थयन्ते ते कथमेतदुच्यमानमप्रमाणकं ग्रहीष्यन्ति ॥ ३२४०-३२४२ ॥
किञ्च-भवतु नामैवं कल्पना, तथापि कुड्यादिनिर्गतासु देशनासु सर्वज्ञाधिपत्यप्रभवत्वं सन्दिग्धमेवेति न तत्र प्रमाणत्वेन प्रेक्षावतां विश्वासो युक्त इति दर्शयति
कुड्यादिनिःसृतानां च न स्यादाप्तोपदिष्टता। विश्वासश्च न तासु स्यात् केनेमाः कीर्तिता इति॥३२४३॥ किं नु बुद्धप्रणीताः स्युः किं नु ब्राह्मणवञ्चकैः। क्रीडद्भिरुपदिष्टाः स्युर्दूरस्थप्रतिशब्दकैः ॥ ३२४४॥
किं वा · क्षुद्रपिशाचाद्यैरदृष्टैरेव कीर्तिताः। [G.844] सर्वं सुबोधम् ॥ ३२४३-३२४५ ॥
एतावत् कुमारिलेनोक्तं पूर्वपक्षीकृतम् ॥ साम्प्रतं सामट-यज्ञटयोर्मतेन पुनरपि सर्वज्ञदूषणमाह
तस्मान्न तासु विश्वासः कर्त्तव्यः प्राज्ञमानिभिः ॥ ३२४५ ॥ एवं सर्वज्ञता पुंसां स्वातन्त्र्येण निरास्पदा। इदं च चिन्त्यते भूयः सर्वदर्शी कथं मतः॥३२४६ ॥ युगपत्, परिपाट्या वा, सर्वं चैकस्वभावतः। - जानन् यथाप्रधानं वा, शक्त्या वेष्येत सर्ववित्॥३२४७॥
युगपच्छुच्यशुच्यादिस्वभावानां विरोधिनाम्। १. नि:सरन्तं-पा०, गा०। २. ध्यानसमापन्ने-पा०, गा०।
३. नि:स्वतानां-पा०।