________________
७१३
अतीन्द्रियार्थदर्शिपरीक्षा अन्यस्मिन् न हि सर्वज्ञे वचसोऽन्यस्य सत्यता।
सामानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत्॥३२३३॥ कदा नाम तयोः प्रतिबन्धो न भवति? इत्याह- सामानाधिकरण्यम्= एकपुरुषाश्रितत्वम्। तयोरिति सर्वज्ञत्वसत्यवचनयो:२। अङ्गाङ्गिता हेतुफलता। एतदुक्तं भवतिएकाश्रयत्वे सति सत्यस्य वचसः सर्वज्ञत्वं कारणं भवेत्, नान्यथा; अतिप्रसङ्गात् ॥ ३२३३ ॥ यदप्यपरैः सर्वज्ञसिद्धये साधनमुपरचितम्, तदप्येतेनैव प्रतिव्यूढमिति दर्शयितुमाह
यत्सर्वं नाम लोकेऽस्मिन् प्रत्यक्षं तद्धि कस्यचित्। प्रमेयज्ञेयवस्तुत्वैर्दधिरूपरसादिवत् ॥३२३४॥ ज्ञानमात्रेऽपि निर्दिष्टे पक्षन्यूनत्वमापतेत्। सर्वज्ञ इति योऽभीष्टो नेत्थं स प्रतिपादितः॥३२३५॥ यदि बुद्धातिरिक्तोऽन्यः कश्चित् सर्वज्ञताङ्गतः।
बुद्धवाक्यप्रमाणत्वे तज्ज्ञानं वोपयुज्यते!॥३२३६॥ यत् प्रमेयत्ववस्तुत्वादियोगि तत् कस्यचित् प्रत्यक्षम्, यथा दधिरूपरसादिकम्। सर्वं च पदार्थजातं प्रमेयादिस्वभावमिति स्वभावहेतुः। अत्रापि पूर्ववत् प्रतिज्ञान्यूनत्वम्, हेतोश्चानैकान्तिकत्वं वक्तव्यम्। तस्मान्न विशेषेण, नापि सामान्येन सर्वज्ञस्य सिद्धिः सम्भवति। अतो नास्ति सर्वज्ञ इति सिद्धम्: तदभावात् तद्वचनस्न्याभाव इति न तद्वचनात् प्रवृत्तिः सम्भवति कस्यचित् ।। ३२३४-३२३६॥
__ अथ वा- सम्भवतु ना सर्वज्ञः पुरुषः, तथापि सर्वज्ञप्रणीतं वचनं न सम्भवत्येव, यतः प्रवृत्तिर्भविष्यति भवतामित्येतत् प्रतिपादयन्नाह-.
- दशभूमिगतश्चासौ सर्वरागांदिसंक्षये।
शुद्धस्फटिकतुल्येन सर्वं ज्ञानेन बुध्यते॥३२३७॥
ध्यानापन्नश्च सर्वार्थविषयां धारणां दधत्।
• तथा व्याप्तश्च सर्वार्थैः शक्तो नैवोपदेशने॥३२३८॥ [G.843] तथा हि दशभूमिप्रतिष्ठतोऽशेषरागादिमलकलङ्कापगमाच्छुद्धस्फटिकतुल्येन ज्ञानेन सकलं ज्ञेयमवबुध्यत इत्येवं भवद्भिर्वर्ण्यते, ततश्चास्यां तावदवस्थायां धारणां चित्तस्यैकाग्रतां दधदर्थबोध एव व्यापृतत्वानासौ शक्नोति धर्ममुपदेष्टुम्, न हीयतो व्यापारान् कश्चित् कर्तुं समर्थः ॥ ३२३७-३२३८॥ व्युत्थाय देशयति चेद् ? इत्याह
यदा चोपदिशेदेकं किञ्चित् सामान्यवक्तृवत्।
एकदेशज्ञगीतं तन्न स्यात् सर्वज्ञभाषितम्॥३२३९॥ न ह्यवितर्का वचनप्रवृत्तिरस्तीति सविकल्पचेतोऽवस्थितेनैवानेन धर्मो देशनीयः, १. गा० सम्पादको न वाञ्छतीदं नेति पदम्।
२. सर्वज्ञत्ववचनयो:- जै०, पा० । ३. ०प्यमरैः-पा०।
४. सर्वज्ञत्वस्य-पा०, गा०। ५. ०वच्छेद्यत-पा०, गा०।