SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ७१२ तत्त्वसंग्रहे नादृष्टवा वेदवाक्यानि शिष्येभ्यश्चाप्रदर्श्य वा। ग्रन्थप्रणयनं तेषामर्पणं चोपपद्यते॥ ३२२८॥ अर्पणमिति बोधनम् । एवं पञ्चभिरपि प्रमाणैर्न सर्वज्ञः सिद्ध्यतीति परिशेष्यादभावेनैव गम्यत इति सिद्धोऽभावप्रमाणविषयीकृतविग्रहत्वादित्ययं हेतुः । [G.841] नाप्यनैकान्तिक इति पूर्वं प्रतिपादितम्; निमित्तान्तराभावाच्वाभावव्यवहारस्येति भावः ।। ३२२८॥ येऽपि मन्यन्ते– “नास्माभिः शृङ्गग्राहिकया सर्वज्ञः प्रसाध्यते, किं तर्हि ? सामान्येन सम्भवमात्रं प्रसाध्यते-अस्ति कोपि सर्वज्ञः, क्वचिद् वा सर्वज्ञत्वमस्ति, प्रज्ञादीनां प्रकर्षदर्शनाद्" इति, तान् प्रतीदमाह नरः कोऽप्यस्ति सर्वज्ञस्तत्सर्वज्ञत्वमित्यपि। साधनं यत् प्रयुज्येत प्रतिज्ञान्यूनमेव तत्॥३२२९॥ हेतोस्तावत् पूर्वमनैकान्तिकत्वं प्रतिपादितमित्यतः पक्षदोषमेव तावत् प्रतिपादयति। अन्यस्मिन् साधयितुमिष्टे यदन्यत् प्रतिज्ञायते तत् प्रतिज्ञान्यूनं पक्षदोषः । इह च स्वस्य शास्तुः सर्वज्ञत्वं साधयितुमिष्टम्, न सामान्येन । तथा हि-न व्यसनितया सर्वज्ञोऽन्विष्यते प्रेक्षावता, किं तर्हि ? तद्वचनाद् धर्माधर्मी ज्ञात्वा प्रवर्त्तिष्ये निवर्तयिष्ये वा' इतिं प्रवृत्तिनिवृत्तिकामतया, [G.841] न च सामान्येन सिद्धेनापि तेन प्रवृत्तिं प्रति पुरुषस्य कश्चिदुपयोगोऽस्ति; विशेषपरिज्ञानमन्तरेण तद्वचनानिश्चयात् । तस्मात् स एव विशेषः प्रवृत्तिकामेन साधनीय इति सामान्यप्रतिज्ञानं प्रतिज्ञान्यूनमेव ॥ ३२२९॥ सिसाधयिषितो योऽर्थः सोऽनया नाभिधीयते। यत् तूच्यते न तत्सिद्धौ किञ्चिदस्ति प्रयोजनम्॥३२३०॥ सिसाधयिषितो योऽर्थ इति। साधयितुमिष्टो योऽर्थः । स इति विशेषः स्वशास्ता। अनर्यात प्रतिज्ञया। यत्तूच्यत इति। विशेषासंस्पर्शेन कोऽप्यस्ति नरः सर्वज्ञः क्वचिद्वास्ति सर्वज्ञत्वमिति, तेन सिद्धेनापि न किञ्चित् प्रयोजनम् ।। ३२३०॥ कथम्? इत्याह यदीयागमसत्यत्वसिद्ध्यै सर्वज्ञतोच्यते। न सा सर्वज्ञसामान्यसिद्धिमात्रेण लभ्यते॥३२३१॥ सेति यदीयागमसत्यत्वसिद्धिः ॥ २१३१॥ कस्मान्न लभ्यते? इत्यत्राह यावद् बुद्धो न सर्वज्ञस्तावत् तद्वचनं मृषा। यत्र वचन सर्वज्ञे सिद्धे तत्सत्यता कुतः॥३२३२॥ तथा हि-यावद् बुद्धस्य सर्वज्ञत्वं न सिध्यति, तावत् तद्वचनस्यापि न सत्यत्वनिश्चयोऽस्ति। [G.842] न च सामान्येन सर्वज्ञसिद्धौ बुद्धवचनस्य सत्यत्वं सिध्येत्; प्रतिबन्धाभावात् ॥ ३२३२॥ __एतदेव दर्शयति१. सति-पा०। २. तदीयागम०-गा।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy