________________
७११
अतीन्द्रियार्थदर्शिपरीक्षा अन्यथाप्युपपन्नत्वान्नार्थापत्तिरियं क्षमा। अत एवानुमाप्येषा न साध्वी व्यवतिष्ठते॥३२२१॥
उपदेशो हि बुद्धादेरन्यथाप्युपपद्यते। अन्यथापि हि व्यामोहादिनोपदेशस्य सम्भवादुभयोरप्यनुमानार्थापत्त्योरनैकान्तिकत्वम्। कथमन्यथापि सम्भवति? इत्याह
स्वप्नादिदृष्टव्यामोहात् वेदाद्वावितथश्रुतात्॥३२२२॥ यथोक्तं शाबरे भाष्ये- 'उपदेशो हि व्यामोहादपि भवति, असति व्यामोहे वेदादपि भवति" (मी०द०, शा०भा० १.१.२) इति। तत्र व्यामोहाद् भवन् दृष्टो यथा स्वप्नोपलब्धस्यार्थस्य, वेदाद् दृष्टो यथा मन्वादीनाम्॥३२२१-३२२२॥
ये तु सुगतादयो वेदानभिज्ञाः, तेषां व्यामोहात् परवञ्चनार्थं वोपदेशः सम्भाव्यत इत्येतत् प्रतिपादयति
ये हि तावदवेदज्ञास्तेषां वेदादसम्भवः। उपदेशकृतो यस्तैव्या॑मोहादेव केवलात्॥३२२३॥ शिष्यव्यामोहनार्थं वा व्यामोहाद् वाऽतदाश्रयात्।
लोके दुष्टोपदेष्टुणामुपदेशः प्रवर्त्तते॥३२२४॥ [G.840] अतदाश्रयादिति अवेदाश्रयात् ॥ ३२२३-३२२४॥ कथमिदमवगतम्-न वेदाश्रयोऽसावुपदेश इति? आह
यद्यसौ वेदमूलः स्याद् वेदवादिभ्य एव तु। .: उपदेशं प्रयच्छेयुर्यथा मन्वादयस्तथा॥३२२५॥
यतस्तु मूर्खशूद्रेभ्यः कृतं तैरुपदेशनम्।
ज्ञायते तेन दुष्टं तत् सांवृतं कूटकर्मवत्॥३२२६॥ यदि हि बुद्धादीनां धर्माद्युपदेशो वेदमूलः स्यात्, तदा ब्राह्मणेभ्य एव विद्वद्भयो मन्वादिवदुपदिशेयुः, न च तैर्ब्राह्मणेभ्य एवोपदिष्टम्, किन्तु जरठशूद्रेभ्य एव, अतोऽवमम्यते-सांवृतम् अलीकम्, तत्-उपदेशनम्, यथा कूटदीनारादिकमिति ॥३२२५-३२२६॥
__ ये तु मन्वादयः, तेषां वेदज्ञत्वाद् वेदमूल एव धर्माधुपदेशः, न तु स्वातन्त्र्येणेति दर्शयति- . . .
ये तु मन्वादयः सिद्धाः प्राधान्येन त्रयीविदाम्।
त्रयीविदाश्रितग्रन्थास्ते वेदप्रभवोक्तयः॥३२२७॥ ऋग्यजुःसामाख्यास्त्रयो वेदा:-त्रयी भण्यते, तां विदन्तीति त्रयीविदो ब्राह्मणा उच्यन्ते। त्रयीविद्भिराश्रितो धर्मशास्त्रादिग्रन्थो येषां ते तथोक्ताः। तद्ग्रन्थाश्रयणे कारणमाह-ते वेदप्रभवोक्तय इति । वेदप्रभवा उक्तयो तेषां ते तदोक्ताः ॥ ३२२७॥
एतदपि कथमवसितम्? कुनयाह१. ०व्यामोहा....- पा०; स्वप्रादिदृष्टं०- गा०। .
२. वादितथ०-पा०; वेदाच्चावितथं०-गा०। ३. वठरशूद्रेभ्य-पा०, गा०।।
४. ०दीनारादिकर्मेति-पा०, गा०/ ५. तद्ग्रन्थाश्रयणा-पा०।