SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ७१० तत्त्वसंग्रहे तदा गम्येत सर्वज्ञसद्भाव उपमाबलात् ॥३२१४॥ उपमानं हि सादृश्यतदुपाधिविषयत्वात् सदृशपदार्थग्रहणानन्तरीयकमसनिकृष्टार्थगोचरम्, यथा-गवयग्रहणद्वारेण गोः स्मरणम्, न च सर्वज्ञसदृशः कश्चित् प्रतीतः सम्भवतीत्यतः सदृशपदार्थग्रहणाभावान्न प्रवर्त्तते । प्रयोगः-यस्य सदृशग्रहणं नास्ति, न स उपमानगम्यः, यथा वन्ध्यासुतः। नास्ति च सदृशग्रहणं सर्वज्ञस्यति व्यापकानुपलब्धिः ॥ ३२१४ ॥ किञ्च-उपमानान्न केवलं सर्वज्ञाधिगमोऽसम्भवी, अपि तु सर्वेषामेव पुंसामुपमानादसर्वज्ञत्वमेव युक्तं प्रत्येतुमित्यादर्शयति नरान् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान्। सादृश्यस्योपमानेन शेषासर्वज्ञनिश्चयः॥३२१५ ॥ (५) न चाप्यर्थापत्त्या सर्वज्ञः सिध्यतीत्येतत् प्रतिपिपादयिषुः परमतं तावदाशङ्कते उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः। अन्यथा नोपपद्येत सर्वज्ञो यदि नो भवेत्॥३२१६॥ प्रत्यक्षादौ निषिद्धेऽपि सर्वज्ञप्रतिपादके। अर्थापत्त्यैव सर्वज्ञमित्थं यः प्रतिपद्यते॥३२१७॥ योऽयं बुद्धादेर्धर्माद्युपदेशः, सोऽन्यथा नोपपद्यते, यदि धर्मादयंस्तेन साक्षान्न विदिता भवेयुः । तस्माद् यद्यपि प्रत्यक्षादि सर्वज्ञप्रतिपादकं निषिद्धम्, तथाप्यर्थापत्त्या सर्वदर्शी पुमान् सिद्ध:-इत्येवं यः प्रतिपद्यते, सोऽयुक्तं प्रतिपद्यते; वक्ष्यमाणान्यायादिति भावः ॥ ३२१६३२१७॥ यद्वा-अनुमानमेवेदम्, नार्थापत्तिः; त्रैरूप्यसम्भवादिति दर्शयति यद्वा-सामान्यतो दृष्टं प्रवृत्तमिह साधनम्। सर्वज्ञस्योच्यतेऽन्यत्र ज्ञानपूर्वत्वदर्शनात्॥३२१८॥ यः कश्चिदुपदेशो हि स सर्वो ज्ञानपूर्वकः। यथाऽभयादिशक्तीनामुपदेशस्तथाविधः ॥३२१९॥ धर्माधर्मोपदेशोऽयमुपदेशश्च तत्कृतः। तदीयज्ञानपूर्वत्वं तस्मादस्यानुमीयते॥ ३२२०॥ [G.839) सामान्यतो दृष्टमित्यनेन विशेषतो दृष्टस्यासम्भवमाह । ययोरेव हि लिङ्गलिङ्गिनो: प्रत्यक्षेण सम्बन्धो दृष्टः, स एव लिङ्गी तेनैव लिङ्गेन कालान्तरे संशयव्यवच्छेदाय यदानुमीयते, तदा विशेषतो दृष्टमनुमानमुच्यते। न च सर्वज्ञेन सह धर्माधुपदेशस्य क्वचित् सम्बन्धो गृहीत इत्यतः सामान्यतो दृष्टमेवैतत्। तथा हि-सामान्येनोपदेशस्यान्यत्र स्वसन्ताने ज्ञानपूर्वकत्वं दृष्टम, अतो यथा देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्याऽऽदित्यस्य देशान्तरप्राप्त्या गतिरनुमीयते, एवं बुद्धादेरपि भगवतो धर्माधुपदेशात् तज्ज्ञानमनुमास्यते। प्रयोगः-यः कश्चिदुपदेशः स वक्तज्ञानपूर्वकः, यथा हरीतक्यादिशक्त्युपदेशः । उपदेशश्चायं बुद्धादीनां धर्माद्युपदेश इति स्वभावहेतुः ।। ३२१८-३२२० ॥ अत्रोत्तरमाह
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy